________________
अनुसंधान-२०
41 अथ मदीय आत्मा इत्यत्राऽपि अभेदतिरस्कारेण भेदेन प्रतिपत्तिरस्ति । न च मच्छब्दवाच्यमात्मान्तरमपि स्वीक्रियते भवता । न चैवं प्रतिपन्नस्त्वयाऽप्यात्मा एतदात्मशब्दाभिधेय इति वाच्यं, मम शरीरं कृशमित्यादिज्ञानेषु शरीरव्यतिरिक्त मालम्बनमङ्गीकुर्वतो ममाऽऽत्मा सुखीत्यादिज्ञानेष्वपि आत्मव्यतिरिक्तालम्बनाभ्युपगमप्रसङ्गस्याऽनिष्टस्याऽऽपादनात् इति चेत् ।
न ! नहि ममाऽयमात्मेति ज्ञाने शरीरादिवन्मत्प्रत्ययविषयादन्य आत्मा प्रतिभाति, किन्त्वहमित्यात्मानं प्रत्यक्षतः प्रतिपद्याऽऽत्मान्तरव्यवच्छेदेन परप्रतीत्यर्थं ममाऽऽत्मेति निर्दिशति; ममाऽऽत्माऽहमेवेत्यर्थः । यदा पुनः शरीरमात्मशब्देन निर्देष्टुमिच्छति तदा ममाऽऽत्मेति भेदाभिधानमेवेदम्, आत्मोपकारकत्वेन शरीरे आत्मत्वोपचारात्, प्रियभृत्येऽत्यन्तोपकारकतयाऽहमेवाऽयमित्यादिवत् ।
अथवा ममाऽऽत्मेति मत्प्रत्ययविषयात् भेदेनाऽऽत्मज्ञानं बाध्यत्वादस्तु भ्रमरूपं, शरीरभेदज्ञानं तु कथं तथा? नहि एकत्र मर्वादौ सलिलज्ञानस्य भ्रमत्वे विमलजललहरीमनोहारिणि सरस्यपि तस्य भ्रमत्वं, भ्रम-प्रमाविशेषाभावप्रसङ्गात् ।
तत् सिद्धमहं-प्रत्ययस्य प्रत्यक्षतया तद्विषयस्याऽऽत्मनोऽपि प्रत्यक्षत्वम् ॥ एतेन किं स्वरूपमात्मनः प्रत्यक्षेणाऽवगम्यते तद् वाच्यं मनागिति न किञ्चित् ।
सुखादेरपि कि स्वरूपं प्रत्यक्षेणाऽवगम्यते यन्मानसप्रत्यक्षे तत् स्वीक्रियते ? न ह्याख्यातुमशक्यमपि प्रत्याख्यातु शक्यं इति यदि, तदत्राऽपि तुल्यम् । अथाऽऽख्यायते एव सुखादेरानन्दादिस्वरूपं प्रसिद्धमेव रूपं प्रत्यक्षेणाऽवगम्यते इति चेत्, तहि तदाधारत्वमात्मनोऽपि रूपं प्रत्यक्षेणाऽवगम्यत इति कथं न जानाति भवान् येनैवं लज्जामपहाय पुनः पुनः प्रलपति । तदुक्तम्
सुखादि चेत् समानं हि स्वतन्त्रं नाऽनुभूयते । मतुबर्थानुवेधात् तु सिद्धं ग्रहणमात्मनः ॥१॥ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥२॥ इति । यत् तु आत्मन्यसत्येव प्रत्यक्षग्रहणाभिमान एष आत्मवादिनां निमीलिताक्षस्य तिमिरग्रहणाभिमानवत्, तत् तुच्छम् । न हि प्रागगृहीतान्धकारस्य निमोलिताक्षस्यान्धकारग्रहणाभिमानः, जात्यन्धस्य तथाऽदर्शनात् । किन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org