________________
२४
अनुसन्थान ४७
थिल्लाकस्य त्वभूत्कान्ता करणः करणापरा । हरिपालो हरिश्चन्द्रः, पुत्रौ पुण्यपवित्रितौ ॥११॥ हरिपालात्मजो हर्ष-जिनदत्तौ शुभाशयौ । यशस्व्युदयसिंहाख्यो, हरिश्चन्द्रतनूद्भवः ॥१२॥ श्रेष्ठि यो(श्रेष्ठिनो?) नरसिंहस्य, भार्ये धीरिणि सुष्पती । धीरिणीकुक्षिजौ भोजा-हरिराजौ प्रभावको ॥१३।। भार्या भावलदेवी तु, श्रेष्ठि भोजप्रियाऽभवत् । सुतो गोधाभिधश्चास्य, हीरा-धन्नाख्यनन्दनौ ।।१४।। श्रीदेवगुर्वार्हतधर्मतत्त्व-पवित्रछत्रत्रयभूषिताङ्गः । श्रेष्ठीनृसिंहस्य सुतो द्वितीयः, स्वपक्षपोषी हरिराजदक्षः ॥१५॥ वर्या राजूश्च मेघाई, भार्ये अभवतां पुरा । श्रेष्ठिनो हरिराजस्य, पुमर्थत्रयशालिनः ॥१६॥
इतश्च
परीक्षवंशशृङ्गार-मुभयेऽस्य सुतोऽभवन् । सद्येशः करणस्तस्य, करणादे प्रियाऽभवत् ॥१७॥ चत्वारः तनयास्तस्य, पुमर्था इव देहिनः । नरसिंहो महीपत्ति-र्वीरमः सोमदत्तकः ||१८|| चतस्रश्च सुतास्तासु मेघाईति तृतीयिका । साध्यूढा हरिराजेन, कलालावण्यमालिनी ।।१९।। जीवाख्यो जिणदासश्च जगमालश्च तत्सुताः । शुद्धशीलासदाचारा मणकाईतिनन्दिनी ॥२०॥ नाम्ना कुतिगदेवीति जीवराजस्य वल्लभा । वल्लभा जिणदासस्य, जसमादे यशस्विनी ॥२१॥ सुखमति-प्रसूतास्तु, नरसिंहस्य नन्दनाः । सहस्रकिरणः सूरा, महीपतिरिमे त्रयः ॥२२॥ सहस्रकिरणस्यास्ति, अद्दा सद्दा सुतद्वयोः । महीपतितनूद्भूतो, वच्छराजः कुमारकः ॥२३॥ धर्मपुत्रः सुभागाख्यो, हरिराजस्य धर्मवान् । इत्यादि परिवहेणा-गhणासावलङ् कृतः ॥२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org