________________
अनुसन्धान ४३
श्रीअश्वसेनतनयाय नमो नमस्ते, सर्वाद्भुतैकविनयाय नमो नमस्ते । विख्यातनिक्षितनयाय नमो नमस्ते, निर्णीतभूर्युपनयाय नमो नमस्ते ॥ ७ ॥ श्रीसंघहर्षसुविनेयकधर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः पार्श्वप्रभोर्भगवतः परमं पवित्रं, स्तोत्र चकार जनताभिमतार्थसिद्धयै ॥ ८ ॥
॥ इति श्री पार्श्वनाथजिनस्तोत्रम् ॥
(२) श्री सुजैत्रपुरमण्डनमहावीरजिनस्तोत्रम् तुभ्यं नम: शुभसुजैत्रपुरावतार !, तुभ्यं नमः कृतसुहत्सफलावतार ! । तुभ्यं नमः प्रणतकामितकल्प ! वीर !, तुभ्यं नमो वृषविधानविधौ सुधीर ! ॥ १ ॥ तुभ्यं नमः शमरसामृतवारिवाह !, तुभ्यं नमः शमितदुष्कृतदावदाह ! । तुभ्यं नमोऽभव ! भवार्णवकर्णधार !, तुभ्यं नमः शिवरमाहृदुदारहार ! तुभ्यं नमः कमलपत्रविलोचनाय, तुभ्यं नमस्तनुभृतां भवमोचनाय ! तुभ्यं नमोऽनिमिषनाथततिस्तुताय, तुभ्यं नमो भगवते त्रिशलासुताय तुभ्यं नमो भुवनभीततिभञ्जनाय, तुभ्यं नमस्त्रिजगतीजनरञ्जनाय ।
॥
२
॥
॥
३
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org