SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ July-2004 5 अस्तं मित्रे वापी कवलित शतगुण दिनान्त एकेन । उत्कूजति कथय [तथा] वदन्ति चक्राष्टकं नाम ॥१॥ अस्तं गतोऽयमरविन्दवनैकबन्धु स्वान्न लङ्घयति कोऽपि विधिप्रणीतम् । चक्राङ्ग ! धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं नहि दीनचित्ता: ॥२॥ मित्रे वापि गते सरोरुहवने बद्धानने क्लाम्यति क्रन्दत्सु भ्रमरेसु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् । चक्राङ्गेन वियोगिना बिशलता ना(नो) खादिता नोज्झिता वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ।।३।। वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या । चन्द्रालोको विकचकुमुदामोदहद्यः समीरः । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्नस्तत्रोपायः क इह भवतः प्राणसन्धारणाय ॥४॥ कवलितमिह नालं कन्दलं चेह दृष्टं इह हि कुमुदकोशे पीतमम्भः सुशीतम् । इति विरटति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥५॥ श[त] गुणपरिपाट्यो पर्यटन्नन्तराले कुमुदकुवलयानामद्धरात्रेऽप्यखिन्नः । उपनदि दयितायाः क्वापि शब्दं निशम्य भ्रमति पुलिनपुष्टे चकवच्चक्रवाकः ॥६॥ दिनान्ते चक्रवाकेन प्रियाविरहभीरुणा । तथा नि:श्वसितं तेन, यथा नोच्छ्वसितं पुनः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229313
Book TitleSubhashit Sanchay
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages28
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size489 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy