________________
तस्याप्युन्नतिमम्बुदस्य सहसे यत्र त्वमेतावता वर्णेनैव परं मराल ! धवलः कृष्णश्चरित्रैरसि ||२||
गाङ्गमम्बु सितमम्बु यामुनं, कज्जलाभमुभयं निमज्जतः । चीयते न च न चाऽपचीयते, राजहंस ! तव शुद्धपक्षता ॥३॥
सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रोञ्चचचप्रभिन्न
प्रोन्निद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः ।
किन्तु स्वच्छाशयत्वं जगति न सुलभं तेन गत्वाऽपि दूरं बद्धो क ( क ) ण्ठानुरागादनुसरति सरो मानसं राजहंसः ||४|| तटमनुतटं पद्मे पद्मे निवेसि (शि) तमानसं प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासितम् । नयनसलिलैरुष्णैः कोष्णां कृता जलवीचयो जलदमलिनां हंसेनाऽऽशां विलोक्य गमिष्यताम् ॥५॥
गतं तद्गाम्भीर्यं तटमुपचितं जालिकशतैः सखे ! हंसोत्तिष्ठ त्वरितममुतो यामि सरसः । न यावत् पङ्काम्भः कलुषिततनुर्भूरि विलसन् बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ||६|| सरसि सरसि वीची मन्ददोलायितानां तदनु विलसताऽग्रं त्वन्मुखाद् यन्मयाऽऽत्तम् । इति मनसि निविष्टामालपेनैव हंसीं त्यजति विरहखेदाज्जीवितं राजहंसः ॥७॥
अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटटिट्टिभो यत्र ॥८॥
अनुसंधान- २८
स्थित्वा चिरं नभसि निश्चलतारकेण, मातङ्गसङ्गमलिनां नलिनीं विलोक्य | उत्पन्नमन्यु परिघर्घरनिस्वनेन, हंसेन साश्रु परिहृत्य गतं निलीनम् ||९||
हंसाष्टकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org