SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 18 शीतांशुः किं सुधायामभवदुत सुधैवाभवच्छीतरश्मावाहोश्चिद् द्वावपीमौ मृगदृशि घटितावेतयोः किं मृगाक्षी । एकैकं सज्जनाद्वा समजनि जनितः सज्जनो वा किमेभिः सन्देहश्चाऽयमित्थं कथमपि मनसो जीवतां न प्रयातः ॥ २॥ ते केचिन्निजकान्तिसुन्दरतया चेतश्चमत्कारिणो दृश्यन्ते परमोत्सवं नयनयोः सम्पादयन्तो जनाः । अन्तर्ये मनसः प्रविश्य सहसा तैस्तैः स्वकीयैर्गुणैराजन्मावधि नोत्तरन्ति हृदयादुत्कीर्णबिम्बा इव ||३|| ये प्राप्ते व्यसनेऽप्यनाकुलधियः सम्पत्सु नैवोन्नता: प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपभोगैरपि । ड्रीमन्त: स्वगुणप्रपञ्चनविधावन्यस्तुतावुत्सुका धिग् ! धात्रा कृपणेन तेऽपि न कृताः कल्पान्तदीर्घायुषः || ४ || करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोः पौरुषमलम् । हृदि स्वच्छा वृत्तिः श्रुतमवितथं च श्रवणयोविनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥५॥ वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् । भक्तिश्चाऽर्हति शक्तिरात्मदमने संसर्गमुक्तिः खले एते यत्र वसन्ति निर्मलगुणाः श्लाघ्यास्त एव क्षितौ ॥६॥ गर्वं नोद्दहते न निन्दति परं नो निष्ठुरं भाषते प्रोक्तः केनचिदप्रियाणि सहते क्रोधं च नालम्बते । अनुसंधान - २८ श्रुत्वा काव्यमलक्षणं परकृतं सन्तिष्ठते मूकवत् दोषान् छादयति स्वयं न कुरुते चैतत् सतां लक्षणम् ॥७॥ सत्पुरुषाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229313
Book TitleSubhashit Sanchay
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages28
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size489 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy