________________
July-2004 .
17
किन्त्वेकस्य गृह मेतस्य (हं त्वमस्य?) वडवावह्नः सदा तृष्णा(ष्ण)या (?)। क्लान्तस्योदरपूरणेऽपि न सहो यत् तन्मनाग् मध्यमम् ॥४|| दूरान्मार्गग्लपितवपुषो मारुतोत्तम्भितान्त:कल्लोलालीबहलवितृषो धाविता: पान्थसार्थाः ।। व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाञ्छास्तस्याऽम्भोधेविफलपयसो वार्यत: किं न शुष्कम् ? ॥५॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥६॥ इतो वसति केशवः पुरमितस्तदीयद्विषामितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवतकैरहो ! विततमूर्जितं भरहं(हरं ?) च सिन्धोर्वपुः ॥७॥ यामारोहति वाञ्छति स्थगयितुं तेजांसि तेजस्विनीमुच्चैर्गर्जति पूरयत्यतिमहीमम्भोभिरम्भोधरः । का(का)श्चिद् द्रागुपजीव्य तोय च(चु)लुकान् सिन्धो ! भवत्सन्निधौ पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥८॥ आदाय वारि परितः सरितां शतेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिकुहरेषु निवेशितं च ॥९॥
समुद्राष्टकम् ॥
शीतांशुस्ते केचिन् नम्रग्व(त्वं) ये करे विपदि वाञ्छा । गर्वे(व)मिति चन्द्रवदने सत्पुरुषाष्टकमिदं] गदितम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org