SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ July-2004 (१०) वीचीकैवर्त्तयद्भम्नं (?), तथा शशिदिवाकरैः । अलं सृजति पोष्याश्च भग्नाशस्याष्टकं विधेः ||१०|| ( ११ ) सुखयसि विलपति यत्तत् तृषार्त्तमेतानि वितर हे मेघ ! । अयि जल मामभ्युन्नत - मिदमम्बुधराष्टकं नाम ॥१॥ सुखयसि तृषोत्ताम्यत्तालुस्खलध्वनिविह्वलं कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् । जलधर ! यदा कालात् कोऽपि प्रचण्डसमीरणः प्रवहति तदा न त्वं नाऽयं न ते जलबिन्दवः ||२|| विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो जलमपि च ते संयोगोऽयं कथञ्चिदुपस्थितः । उपकृतिकृते प्रह्णं चेतः कुरुष्व यदग्रतो भ्रमति पवनः क्व त्वं क्वाऽयं क्व वा जलसंहतिः ||३|| यत्तद् गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाऽम्बरडम्बरे विरचितं यद्दूरमभ्युन्नतम् । तेषां पर्यवसानमेतदधुना जातं यदम्भोधरं द्वित्रां कृत्रिमरोदनाश्रुतनवोन्मुक्ताः पयोबिन्दवः ||४|| तृषार्त्ते पाथोद ! प्रलपति पुरश्चातकशिशौ यदेतत्रैर्यं तदिह गदितुं मा त्वर इति । विपद् वा स्वाधीना किमुत जडता वा परिणता मरुद्वानो वास्यत्यथ घन ! शरद् वा न भवति ||५|| एतान्यहानि किल चातकशावकेन नीतानि कण्ठकुहरे स्थितजीवितेन तस्यार्थिनो ज[ल]द ! पूरय वाञ्छितानि मा भूत् त्वदेकशरणस्य बत प्रमादः ||६॥ Jain Education International 15 For Private & Personal Use Only www.jainelibrary.org
SR No.229313
Book TitleSubhashit Sanchay
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages28
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size489 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy