________________
मार्च २००९
इति गाथार्थः ॥
उक्तं सामान्यतो गाथालक्षणमधुना यद्विशेषाद्यविशिष्टानामिका गाथा भवति इति गाथाष्टकेन तदाह
सामण्णेसा गाहा विरामअंसयवसाउ भेया सिं । पढमंसतिए विरई दोसु वि अद्धेसु सा पत्था ॥८॥
सामान्या-अविवक्षितविशेषा एषा-अनन्तरोक्तलक्षणा गाथा प्रतीता; विरामांशकवशात्-विरामस्य-विरतेरंशकस्य च-गणस्य वशादपेक्षणाद् भेदाविशेषा भवतीति गम्यते । आसामिति गाथानां, सामान्यगाथाविकारेऽपि विशेषापेक्षया बहुवचनं, सामान्य-विशेषयोः कथञ्चिदभेदादिति । प्रथमांसकत्रिके-द्वयोरपि पूर्वापररूपयोः प्रथमगणत्रिके यस्या विरतिः विरामांशो न भवति सा एवंरूपा गाथा पथ्या पथ्येत्यभिधाना भवतीति गाथार्थः ।।८।।
विलाहिजणविस्सामया गुरूणंतरे उ मज्झगुरू ।।
बीउ चउत्थउ अंसउ उ सा सव्वउ चवला ॥९॥
विपुलेति, विपुलाभिधाना गाथा भवतीति गम्यते । किंविशिष्टा ? अधिकजनविश्रामजाऽधिकजनो वा पूर्वोक्तगणस्याऽपेक्षया यो विश्रामो विरतिस्तस्माज्जाताधिकजनविश्रामजोक्ता विपुला गाथा । शेषेण सर्वतश्चपलामाह । गुलंरुणा:(गुरूणंतरे) पूर्वापरांसकचरमाद्ययोरक्षरयोरन्तरे मध्ये तुरेवकारार्थः, ततोऽन्तर एव मध्यगुरुर्मध्ये गुरुय॑स्य स, तथांऽशको यस्याः स्यादिति गम्यते । किविशिष्टा ? द्वितीयश्चकारस्य लुप्तनिर्दिष्टत्वात् चतुर्थकश्चांऽशको गणः, तुः पुनरर्थे भिन्नक्रमश्च, द्वयोरप्यंशयोः स्यात्, सा पुनरेवं लक्षणा सर्वतश्चपला गाथाविशेषा भवतीति गाथार्थः ॥९॥
पढमे दलंमि नीसेसलक्खणं केवलं तु चपलाए । बीए पुण सामण्णं गाहा सा होइ मुहचवला ॥१०॥
यस्याः स्यादिति गम्यते । प्रथमे दले अर्धे निःशेषं च लक्षणं केवलं शुद्धं, तुरेवकारार्थः भिन्नक्रमः, चपलाया एव । द्वितीये का वार्ता ? इत्याहद्वितीयेपुनरः इत्यनुवर्तते, गाथासामान्यं सामान्यगाथालक्षणमित्यर्थः । सा किमित्याह-भवति मुखचपला-मुखचपलाभिधाना गाथा भवतीति गाथार्थः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org