SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४७ बीयद्धे चवलालक्खणम्मि जघणचवला भवे सा उ । चवलव्व तिप्पयारा विरामउ होइ विउला वि ॥११॥ द्वितीयाढे पश्चिमदलेऽधिकृतगाथाया एव चपलालक्षणे द्वितीयचतुवंशको गुरुमध्यगौ स्वयं च मध्यगुरू यदि भवत: । एवंलक्षणं किमित्याहजघनचपलेति-जघनचपलाभिधाना भवेत् स्यात् । सा तु सा पुनर्यथेयं सर्वतोमुखजघनविशेषणाविव चपला तथा विपुलाऽपि स्यात् । [कथं?] इत्याहचपलेव त्रिप्रकारा-त्रिभेदा विरामतः विरतिमपेक्ष्य भवति, विपुलापि । इदमुक्तं भवति-यस्या द्वयोरप्यर्द्धयोः प्रथमगणत्रयापेक्षया न्यूनाधिका वा पदविरतिः सा सर्वतो विपुला, यस्याः पुन: प्रथमार्भावतार्येव विपुलालक्षणं सा मुखविपुला, पश्चिमार्द्धावतारिणि वाऽस्मिन्नेव जघनविपुलेति गाथार्थः ॥११॥ पढमद्धे छटुंसो होइ दुगप्पो जहेव गाहाए । तह बीयद्धे वि भवे सहिमत्तं भणंति तं गीई ॥१२॥ तं गीति भणन्तीति क्रियासम्बन्धः । यस्याः किमित्याह-प्रथमाढे प्रतीते षष्ठोंऽशको भवति, द्विकल्पो, द्विप्रकारो, यथैव गाथायां-यथेति दृष्टान्तार्थमेव अवधारणे, गाथायां सामान्यलक्षणायां, तथा तेन प्रकारेण द्वितीयाद्धेऽपि भवेत् सा षष्ठांशो विकल्पो मध्यगुरुश्चतुर्लधुको वा तामेवंलक्षणां गाथां षष्टिमात्रां द्वयोरप्यर्द्धयोः पृथग् त्रिंशन्मात्रत्वात्, भणन्ति, पूर्वस्तत्र यो गीति गीतमार्गोपयोगिनी विद्वांस इति गाथार्थः ॥१२॥ गाहाबीयदले जह छटुंसो एगमत्तो उ । तह पढमद्धे वि भवे तं उबगीई भणंति बुहा ॥१३॥ गाथाद्वितीयदले द्वितीया॰, यथा येन प्रकारेण, षष्ठोऽशः कल्प एकमात्रो लघ्वेकमात्रेत्यर्थः, तुरवधारणार्थस्तथा प्रथमाद्धेपि यस्याः षष्ठ एकमात्रो भवेत्तामनन्तरोक्तलक्षणामुपगीति भणंति बुधा:-विद्वांस इति गाथार्थः ॥१३॥ गाहाए जत्थ पढमबीयदलाणं विवज्जासो । उग्गीई सा भणिया विरामअंसेहिं होइ पुव्वसमा ॥१४॥ यत्र यस्यां गाथायामुक्तलक्षणायां प्रथमद्वितीयदलयोः विपर्यासो व्यत्ययः, प्रथमार्द्धलक्षणं ससांशाश्चतुर्मात्रा अन्ते च गुरुरित्यादि तत्, द्वितीया? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229276
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages16
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size432 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy