________________
कायेन्द्रिय-सिद्धिर् अशुद्धि-क्षयात् तपसः ॥४३॥ स्वाध्यायाद् इष्ट-देवता-संप्रयोगः ॥४४॥ समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥४५॥ स्थिर-सुखम् आसनम् ॥४६॥ · प्रयत्न-शैथिल्यानन्त-समापत्तिभ्याम् ॥४७॥
ततो द्वन्द्वानभिघातः ॥४८॥ तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः ॥४९॥ बाह्याभ्यन्तर-स्तम्भ-वृत्तिर् देश-काल-संख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः ॥५०॥ बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः ॥५१॥ ततः क्षीयते प्रकाशावरणम् ॥५२॥ धारणासु च योग्यता मनसः ॥५३॥ स्व-विषयासंप्रयोगे चित्तस्य स्व-रूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥
४७. नन्त्य-स Kss. ५०. स तु additional at the beginning in Kss; however, Vivarana and Va. clearly
indicate that
is not a part of the sūtra for them.
Vidyāsāgara; however, Bhāşya, etc. clearly favor the
compound reading