________________
शौच-संतोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥३२॥ वितर्क-बाधने प्रतिपक्ष-भावनम् ॥३३॥ वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोह-पूर्वका
मृदु-मध्याधिमात्रा दुःखाज्ञानानन्त-फला इति
प्रतिपक्ष-भावनम् ॥३४॥ अहिंसा-प्रतिष्ठायां तत्-संनिधौ वैर-त्यागः ॥३५॥ सत्य-प्रतिष्ठायां क्रिया-फलाश्यत्वम् ॥३६॥ अस्तेय-प्रतिष्ठायां सर्व-रत्नोपस्थानम् ॥३७॥ ब्रह्मचर्य-प्रतिष्ठायां वीर्य-लाभः ॥३८॥ अपरिग्रह-स्थैर्ये जन्म-कथंता-संबोधः ॥३९॥ शौचात् स्वाङ्ग-जुगुप्सा परैर् असंसर्गः ॥४०॥ सत्त्व-शुद्धि-सौमनस्यैकाग्गेन्द्रिय-जयात्म-दर्शन-योग्यत्वानि च ॥४१॥ संतोषाद् अनुत्तमः सुख-लाभः ॥४२॥ .
४१. काग्रतेन्द्रि' KSS. एकाग्रता, not ऐकाय, is used in 3.11-12, but Bhasya,
Vivarana and Va. have ऐकाग्य here.
४२. "त्तमस' i.e. a compound in Vidyasagara; Bhasya does not indicate how it
read the sūtra.