________________
विशेषाविशेष-लिङ्ग-मात्रा-लिङ्गानि गुण-पर्वाणि ॥१९॥ द्रष्टा दृशि-मात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥ तदर्थ एव दृश्यस्यात्मा ॥२१॥
कृतार्थ प्रति नष्टम् अप्यनष्टं तद्, अन्य-साधारणत्वात् ॥२२॥ • स्व-स्वामि-शक्त्योः स्व-रूपोपलब्धि-हेतुः संयोगः ॥२३॥
तस्य हेतुर् अविद्या ॥२४॥ तदभावात् संयोगाभावो हानं. तद् दृशेः कैवल्यम् ॥२५॥ विवेक-ख्यातिर् अविप्लवा हानोपायः ॥२६॥ तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥२७॥ योगाङ्गानुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आ विवेक-ख्यातेः ॥२८॥ यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टाव्
अङ्गानि ॥२९॥ अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः ॥३०॥ जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् ॥३१॥
१९. त्रा-
लिङ्गा Vivarana °णिः Vivarana. ३०. ०-सत्यमस्तै Vidyasagara. ३१. एते additional at the beginning KSS.