________________
सुखानुशयी रागः ॥७॥ दुःखानुशयी द्वेषः ॥८॥ स्व-रस-वाही विदुषोऽपि तथा-रूढोऽभिनिवेशः ॥९॥ ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥१०॥ ध्यान-हेयास् तद्-वृत्तयः ॥११॥ क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥१२॥ सति मूले तद्-विपाको जात्यायुर्-भोगाः ॥१३॥ ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥१४॥ परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं . विवेकिनः ॥१५॥ हेयं दुःखम् अनागतम् ॥१६॥ द्रष्ट्-दृश्ययोः संयोगो हेय-हेतुः ॥१७॥ प्रकाश-क्रिया-स्थिति-शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
७. °नुजन्मा
Vivarana, which records also the reading accepted above.
८.
नजन्मा Vivarana, which records also the reading accepted above.