________________
ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥
१०
[ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः । ]
तृतीयः विभूति पादः ।
देश-बन्धश् चित्तस्य धारणा ॥१॥
तत्र प्रत्ययैक- तानता ध्यानम् ॥२॥
तद् एवार्थ-मात्र-निर्भासं स्व-रूप- शून्यम् इव समाधिः ॥३॥
त्रयम् एकत्र संयमः ॥४॥
तज्-जयात् प्रज्ञालोकः ॥५॥
तस्य भूमिषु विनियोगः ॥६॥
त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥७॥
तद् अपि बहिरङ्गं निर्बीजस्य ॥८॥
व्युत्थान-निरोध- संस्कारयोर् अभिभव प्रादुर्भावौ निरोध-क्षण-चित्तान्वयो
निरोध - परिणामः ॥ ९ ॥
तस्य प्रशान्त-वाहिता संस्कारात् ॥१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि - परिणामः ॥११॥