________________
११
ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्यैकाग्रता-परिणामः ॥१२॥ एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥१३॥ शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥१४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥ परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् ॥१६॥ शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संकरः, तत्-प्रविभाग-संयमात् . सर्व-भूत-रुत-ज्ञानम्॥१७॥ संस्कार-साक्षात्-करणात् पूर्व-जाति-ज्ञानम् ॥१८॥ प्रत्ययस्य पर-चित्त-ज्ञानम् ॥१९॥ न च तत् सालम्बनं, तस्याविषयीभूतत्वात् ॥२०॥ काय-रूप-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाशासंप्रयोगेऽन्तर्-धानम्
॥२१॥ सोपक्रमं निरुपक्रमं च कर्म, तत्-संयमाद् अपरान्त-ज्ञानम्,
अरिष्टेभ्यो वा ॥२२॥
। ॥२२॥
१२. तत्र पु° vivarana edn. First two words om. Kss. २०. न तत् KSS. च सा° Vivarana.