________________
न तत् स्वाभासं, दृश्यत्वात् ॥१९॥ एक-समये चोभयानवधारणम् ॥२०॥ चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥२१॥ चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्व-बुद्धि-संवेदनम् ॥२२॥ द्रष्ट्-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥ तद् असंख्येय-वासना-चित्रम् अपि परार्थ, संहत्य-कारित्वात् ॥२४॥ विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥२५॥ तदा विवेक-निम्न कैवल्य-प्राग-भारं चित्तम् ॥२६॥ तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥ हानम् एषां क्लेशवद् उक्तम् ॥२८॥ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा-विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥२९॥ ततः क्लेश-कर्म-निवृत्तिः ॥३०॥ तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥३१॥
idyāsāgara, Jhajjar, KSS. Bhāsya too could have read so.
२४. 'नाभिश् चि° vidyasagara. २५. ना-नि: Vivarana, Kss.