________________
१५
कर्माशुक्लाकृष्णं योगिनस्. त्रिविधम् इतरेषाम् ॥७॥ ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥८॥ जाति-देश-काल-व्यवहितानाम् अप्यानन्तर्यं, स्मृति-संस्कारयोर्
एक-रूपत्वात् ॥९॥ तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥१०॥ हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ॥११॥ अतीतानागतं स्व-रूपतोऽस्त्यध्व-भेदाद् धर्माणाम् ॥१२॥ ते व्यक्त-सूक्ष्मा गुणात्मानः ॥१३॥ परिणामैकत्वाद् वस्तु-तत्त्वम् ॥१४॥ वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः ॥१५॥ न चैक-चित्त-तन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥१६॥ तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥ सदा ज्ञाताश् चित्त-वृत्तयस्, तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
१०. °दित्वम् आशि°kss. १५. विविक्तः vivarana, Kss. १७. °पेक्षित्वात् Vidyasagara, Jhajjar, KSS. Is °पेक्षत्वात् in Vivarana an
attempt to eliminate a grammatically difficult matvarthiya?