________________
१४ तद्-वैराग्याद् अपि दोष-बीज-क्षये कैवल्यम् ॥५०॥ स्थान्युपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनर् अनिष्ट-प्रसङ्गात् ॥५१॥ क्षण-तत्-क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥५२॥ जाति-लक्षण-देशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥५३॥ तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥५४॥ सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् इति ॥५५॥
- [इति पतअलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः]
चतुर्थः कैवल्य-पादः । जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥ जात्यन्तर-परिणामः प्रकृत्यापूरात् ॥२॥ निमित्तम् अप्रयोजकं प्रकृतीनां. वरण-भेदस् तु ततः क्षेत्रिकवत् ॥३॥ निर्माण-चित्तान्यस्मिता-मात्रात् ॥४॥ प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥५॥ तत्र ध्यानजम् अनाशयम् ॥६॥
५१. °पम° Vivarana ५५. इति om. Jhajjar, Kss. इति[:] सूत्र-समाप्तौ va.