________________
ते समाधाव् उपसर्गा, न्युत्याने सिद्धयः ॥३७॥ बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च चित्तस्य पर-शरीरावेशः ॥३८॥ उदान-जयाज् जल-पङ्क-कण्टकादिष्वसङ्ग उत्क्रान्तिश् च ॥३९॥ समान-जयाज् ज्वलनम् ॥४०॥ श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं झोत्रम् ॥४१॥ कायाकाशयोः संबन्ध-संयमाल् लघु-तूल-समापत्तेश् चाकाश-गमनम् ॥४२॥ बहिर् अकल्पिता वृत्तिर् महा-विदेहा. ततः प्रकाशावरण-क्षयः ॥४३॥ स्थूल-स्व-रूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद् भूत-जयः ॥४४॥ ततोऽणिमादि-प्रादुर्भावः काय-संपत् तद्-धर्मानभिघातश् च ॥४५॥ रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत् ॥४६॥ ग्रहण-स्व-रूपास्मितान्वयार्थवत्त्व-संयमाद् इन्द्रिय-जयः ॥४७॥ ततो मनो-जवित्वं विकरण-भावः प्रधान-जयश् च ॥४८॥ सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं
सर्व-ज्ञातृत्वं च ॥४९॥
४०. °जयात् प्रज्व° Kss. 86. Putfarai vidyāsāgara, Jhajjar, KSS. Is utara in Vivaraṇa an attempt to
eliminate a grammatically difficult matvarthiya?