SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ 'पुरुषविश्वासे वचनविश्वास' इति न्यायानुसारेण ज्ञानज्योतिः पुञ्जसमश्वाचार्य हरिभद्रसूरेः परिचयं प्राप्य तत्कृत ग्रन्थस्य महत्ता ज्ञातव्येति। श्रीप्रभावकचरित्रानुसारेण समासतो हरिभद्रसूरेश्चरित्रमुल्लिख्यते / श्रीमान् हरिभद्रसूरिश्चित्रकूटनगरस्य राज्ञो जितारेः पुरोहित आसीत्, स्वयं प्रकाण्डपण्डितोऽत एव पाण्डित्य महत्त्वहेतुना स भगवान् 'येन कथितं मया ज्ञातं न स्यात्तदा तस्याहमन्तेवासी भविष्यामीति महाभीष्मप्रतिज्ञां कृतवान्। तस्मिन्नवसरे चित्रकूटनगरे जिनभटसूरिनामको जैनाचार्यों निवसतिस्म, तस्य सम्प्रदाय महत्तराबिरुदविराजिता 'याकिनी' त्यभिधा धारिणी साध्वी मुख्या साध्वी विराजतेस्म / एकदा हरिभद्रपण्डितपुङगवेन सरस्वतीमूर्ति स्वाध्याय निरत महत्तरायाकिनी साध्वीवदनकमलत उच्चार्यमाणा 'चक्कि दुर्ग हरिपणगं' इत्यादि गाथा, श्रवणविषयीकृता, ततः स तस्या गाथाया अर्थो नज्ञातोऽतः साध्वीसकाशे समागत्य, तदर्थज्ञापनकृते साध्वी विज्ञप्ता, शास्त्राज्ञाधीनया साध्व्या, अस्मद्गुरोजिनभट सरे: पुरोगमनाय तस्मै कथितम् तदनन्तरं श्रीहरिभद्रपण्डित आचार्य जिनभटसूरेः पार्श्व गत्वा तस्या गाथाया अर्थ सादरं पप्रच्छ। जैनी दीक्षां गृहीत्वा विधिपूर्वकं जैनागमं यः पठति तस्यैव सूत्रार्था ज्ञाप्यन्ते नान्यस्येति / श्रीमता तेनाचार्येण प्रत्युत्तरितम् प्रतिज्ञापालनदक्षेण योग्य पुरुषशिरोमणिना तेन हरिभद्र पण्डितशिरोमणिना जैनीदीक्षा कक्षीचक्रे। तत आचार्येण तस्मै तस्या महत्तरायाकिन्याः परिचयो दत्तः, हेतुनाऽनेन श्रीहरिभद्रपण्डितेन प्रकाशितं यत् 'अनय देवता स्वरूपिण्या धर्ममात्राऽहं प्रतिबुद्धोऽस्मीति / ततः कतिपयैदिनैः सर्वेषु जैनागमेषु परमप्रवीणः समजायत; श्रीगुरुणा परमयोग्याय श्रीहरिभद्रमुनीश्वराय पण्डितमूर्धन्यायाचार्यपदं प्रददे, दत्त्वा आचार्यपदं स्वीयपट्टधरश्चक्रेतराम् / श्री हरिभद्रसूरेहंसपरमहंसनामानो द्वौ शिष्यावभवताम्, यौ संसारपक्षे भागिनेयावास्ताम् / तत्र तयोर्दीक्षा, शास्त्राध्ययनं च बौद्ध तर्क शास्त्राध्ययनाय बौद्धानां नगरे गमनं, तत्र तयोः परीक्षा, ततश्चलन, मार्गे बौद्धैः सह युवा हंसस्य मरणं, परमहंसस्य सूरपालस्य राज्ञः शरणे गमनं, बौद्धैः सहवादः, ततः प्रणम्य चित्रकूट गत्वा जातं व्यतिकरं कुर्वतः परमहंसस्यमरणं, हरिभद्रसूरिः क्रुद्धः, ततः सुरपालराजसभायां बौद्धः सह वादः, प्रतिज्ञाऽनुसारेण बौद्धानां तप्ततैलकुण्डे पतनं, जिनभटसूरि द्वारा श्रीहरिभद्रसूरेः कोपप्रशान्तिस्तथाऽपि मनोमन्दिरे शिष्य विरहवेदना न शाम्यति। . अम्बिकादेवी, समागत्य सूरि सान्त्वयति, कथयामास च शिष्यसन्ततियोग्यःपुण्य प्राग्भारो युष्माकं नास्ति, तस्माद्ग्रन्थ सन्ततिरेव युष्माकं भाग्येऽस्ति, ततो ग्रन्थ सार्थ निर्माणमेव भगवान् भवान् करोतु इति देव्यावचः सूरिणा जगृहे। अथ सूरिः चतुश्चत्वारिंशदधिक चतुःशतोत्तर सहस्र संख्यकानि समरादित्य चरित्रादिगम्भीर ग्रन्थ प्रकरणानि रचयांचकार। शिष्य विरह सूचक विरह शब्देनान्तेऽङिकतानि कृतानि च एतं ग्रन्थ राशि लेखयित्वा तत्प्रचाराय रिणा 'कार्णसिको' गृहस्थो धूर्ताख्यान द्वारा उपदिश्य जैनःकृतः सूरिवचोऽनुसारेण तेन व्यापारेण लब्ध द्रव्य द्वारा सूरेन्थान् लेखयित्वा सर्वत्र ग्रन्थाः प्रसारिताश्चतुर शीतिदेवकुलिका मण्डितः एको महाजिनालयो निर्मापितो, हरिभद्रसूरिणा महानिशीथ सूत्रस्योद्वारो विहितः / ... अनेक ग्रन्थ प्रणेता, वादिविजेता, प्रावनिक पुरन्दरः, नैमितिकपुङ्गवः, योगिवरेण्योयुगप्रधान: श्री हरिभद्र सूरीश्वरः सततं जिनशासने विजयताम् / जैसे तुम्बे का पात्र मुनिराज के हाथ में सुपात्र बन जाता है, संगीतज्ञ के द्वारा विशुद्ध बाँस से जुड़ कर मधुर संगीत का साधन बन जाता है, डोरियों से बन्धकर समुद्र तथा नदी को पार करने का निमित्त बन जाता है और मदिरा-मांसार्थी के हाथ पड़कर रुधिर-मांस का भाजन बन जाता है। वैसे ही कोई भी मनुष्य सज्जन या दर्जन की संगति में पड़कर गण या अवगुण का पात्र बन जाता है / -राजेन्द्र सूरि 112 राजेन्द्र-ज्योति Jain Education International For Private & Personal Use Only melinerary
SR No.211868
Book TitleLalit Vistargat Vastu Vichar Tatkartushwa Samasat Parichay
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherZ_Rajendrasuri_Janma_Sardh_Shatabdi_Granth_012039.pdf
Publication Year1977
Total Pages2
LanguageHindi
ClassificationArticle & Literature
File Size366 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy