SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरागत वस्तुविचारः तत्कर्तुश्च समासतः परिचयः भवनतिलकसूरीश्वरान्तेवासी भद्रङ्करसूरिः वीतरागैः सर्वजैः सूत्रीयविधिना विधीयमानाश्चैत्यवन्दनादि क्रियाः, मिथ्यादर्शनमथनत्वेन सम्यग्दर्शनविशुद्धिजनकत्वेन प्ररू पिता: सन्ति। चैत्यवन्दनसूत्रस्योपरि नानावृत्तयो विद्यन्ते तत्र सर्वाभ्यो वृत्तिभ्यः प्राचीनवृत्तेर्नाम 'ललितविस्तरे'ति प्रसिद्ध प्रवर्तते, यस्याश्च, रचयितारः सुगृहीतनामधेया: सुविहितशिरोमणयः समर्थशास्त्रकारा आचार्याभगवन्तः श्रीहरिभद्रसूरयो विजयन्ते । __ अस्या वृत्तेर्माहात्म्यं जनशासने निश्चितं विश्रुतमेवंविधमस्ति यत्, उपमितिभवप्रपञ्चाया: कर्तार आचार्या सिद्धर्षिगणयः कथयन्ति। 'अनागतं परिज्ञाय, चैत्यवन्दनसंश्रयामदर्श निर्मिता येन वृत्तिललितविस्तरा' इत्येनं विषयं समर्थयन्तः पू. पा. श्रीमनिचन्द्रसूरयो ये सिद्धराजजयसिंह महाराजस्य राज्यसंसदि समर्थपादित्वेन प्रथिताः पू. श्री वादिदेवसूरीणां गुरव आसन्, ते ललितविस्तरायामुपरि पञ्जिकानामक लघु टीका रचयन्तो मङगलाचरणे 'अखिल व्याख्यातचूडामणिः सुगतप्रणीतशास्त्राभ्यासा प्रचलितचेतनः सिद्धर्षिनामक: साधु पुङ्गवः यां-ललितविस्तरां बुद्धा प्रबुद्धः, उपमितिभवप्रपञ्चाकथाकृतिरूप स्वकृतौ यत्कर्तुःललितविस्तराकत्तुर्हरिभद्र सूरेगुरुतयाऽसौ नमस्यां चक्रे, तस्या वृत्तेविधृति का कः समर्थः ? तथाप्यात्मनः स्मृत्ययतिष्येऽहम्, इत्या ख्यातवन्तः। चैत्यवन्दनमेकं तादृशमनुष्ठानमस्ति यद् पू.पा. श्रीमद्भगवद् गणधरेन्द्रः साधुसाध्वीभिनिरन्तरं क्रियमाणावश्यक कर्मणि निहितमस्ति । 'चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते, तस्मात्कर्मक्षयः सर्वः, ततः कल्याणमश्नुते'।। अद्याप्यदं युगीना जैनशासने परः सहस्रा: परोलक्षाश्चजनाश्वत्यवन्दनक्रियां नियमत: कुर्वन्तो दृश्यन्ते तत एषाचैत्यवन्दनक्रिया जीवन्ती विद्यते तथापि भावित चित्तवता पुरुषेण कार्येति यता भावितचित्तेन भवन्ती क्रिया सक्रियात्वेन शास्त्रण स्वीक्रियते, स एव शुद्धचत्यवन्दनं करोति यस्य चैत्यवन्दन सूत्रस्यार्थतात्पर्यमस्ति। ललितविस्तरानामकोग्रन्थो मात्रसिद्धर्षेरुपकारकोनास्ति, सादरमभ्यस्यतश्च, अभ्यासेन सत्यतत्वबोधकसर्वजीवस्य सिद्धर्षिवदुपकारा भवति । अतो ललित विस्तराग्रन्थे सातत्येनाभ्यासादरः श्रद्धालुभिः कर्तव्यः। श्रीमन्तस्तीर्थकरा 'धर्मरयनायका धर्मरथस्य सारथयो धर्म साम्राज्यस्य सार्वभौमाः' इत्यादि तीर्थंकरमहत्त्वसम्बन्धि तत्वं, ललितविस्तरायाः विशिष्ट बोधं विनाऽन्यतोज्ञातुमशक्यमतो ललितविस्तरायाः सम्यग्ज्ञानतो विश्वोपकारिणः परमात्मनस्तीर्थकरान् प्रति भक्तिभावोल्लासोऽवश्यं जागत्यैव । अद्यास्माभिः स्वीकर्तव्यमेवयत् त्रिसन्ध्यं चैत्यवन्दनीय सूत्रः, चैत्यवन्दनादिक्रियाकर्तारो जैना लक्षाधिक संख्यायां विद्यन्ते परन्तु तदर्थरहस्येन सह, भावतस्तत्कर्तारः कतिपयेऽपि, क्वचित् सन्त्यपि सम्भाव्यते । तादृश परिस्थिते: परिवर्तन कृते एतस्य ललितविस्तराग्रन्थस्याध्ययनकारिणां संख्यावृद्धिः कर्तव्या, तदर्थ प्रयत्नोऽपि कर्तव्यः । जगतः सर्वशासनातिशायि जैन शासनं जयति यत् इदं शासनं सर्वथा व्यवस्थितं सर्वथा सर्वकल्याणकरं कर्ममहासत्ताया अधःस्थितानां जीवानां कर्मपरसत्तातो मोचकं च सर्वदुःखमात्रता - मोचकमस्ति। ___ श्रीमत्या ललितविस्तराया मूलरूप उद्दश्य एवमस्ति यत्, चैत्यवन्दनस्य चारुक्रियायां यानि चैत्यानि वन्दनीयानि भवन्ति तानि श्रीमतां भगवतामहतां बिम्बान्येव तेषां बिम्बानां चैत्यमितिनाम कथं कथ्यते ? तत्प्रत्युत्तरमेतदस्ति । तेभ्यश्चैत्यभ्य: कृतवन्दनादिः, प्रशस्तसमाधि विशिष्ट चित्तं सम्पादयत्येव श्रीमदर्हद्धिष्वेषु प्रशस्त समाधि विशिष्टचित्तोत्पादन सामर्थ्य भावार्हद्भयः सम्पद्यत् इति । वी.नि.सं. २५०३ १९१ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.211868
Book TitleLalit Vistargat Vastu Vichar Tatkartushwa Samasat Parichay
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherZ_Rajendrasuri_Janma_Sardh_Shatabdi_Granth_012039.pdf
Publication Year1977
Total Pages2
LanguageHindi
ClassificationArticle & Literature
File Size366 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy