________________
सूरीशोभा विसङ्केत- भावार्थोयमभूद्यतः । सम्बन्धेस्मिन्नयं तिष्ठेत्सावधानतया स्वयम् ॥ ४१ ॥ रुद्र-सूर्य-समाषाढ-घवकादशी तिथौ । अजमेरे गताः स्वर्गं श्रीजिनदत्तसूरयः ॥ ४२ ॥ ततश्चन्द्रगुरौ सर्व गच्छभारः समागतः । निरवद्ययार्थेन पदमिदमसावपि ॥ ४३ ॥ पावयन्तः पुरग्रामान् श्री जिनचन्द्रसूरयः । सत्र देन्दु सूर्या त्रिभुवनगिरिं ययुः ॥ ४४ ॥ तत्रत्य शान्तिनाथस्य विधिचैत्ये प्रतिष्ठिते । श्रीजिनदत्तसूरीशैः श्रीजिनचन्द्रसूरिणा ॥ ४५ ॥ स्वर्णमय ध्वजा दण्ड- कुम्भाः प्रतिष्ठिताः पुनः । प्रदत्तं गणिनी हेम देव्यै प्रवर्तिनीपदम् ॥ ४६ ॥ युग्मम् ततस्ते मथुरायात्रां कृत्वा गुर्भीमपल्लिकाम् । तत्र सम्वन्नगेलाक्षीन्दुवर्षे फाल्गुनार्जुने ॥ ४७ ॥ दशम्यां हि महावीरचेत्ये श्रीचन्द्रसूरिणा । पूर्णदेव गणी वीरभद्रो जिनरथः पुनः ॥ ४८ ॥ वीरनयो जयशीलो जिनभद्रो जगहितः । श्रीनरपतिरेतेष्टी दीक्षिता मुनयो वराः ॥ ४६ ।। त्रिभिर्विशेषकम्
श्राद्ध-क्षेमन्धरश्रेष्ठी पुनस्तैः प्रतिबोधितः । ततो विहृत्य सूरीशामरुकोटं ययुः क्रवात् ॥ ५० ॥ तत्र चन्द्रप्रभस्वामिचेत्ये पूज्यैः प्रतिष्ठिताः । स्वर्णदण्डध्वजा कुम्भाः साधुगोलक कारिताः ५१ ॥ उत्सवेऽस्मिन्ललौ मालां रौप्यपञ्चाशताऽर्पणात् । श्रेष्ठिक्षेमन्वरोथार्यास्तत उच्चपुरं गताः ॥ ५२ ॥ तत्र सम्वद्गलाक्षीन्दुवर्षे गुणवर्द्धनः । ऋषभदत्त-विनयशोलादि मुनयो वराः ॥ ५३ ॥ सरस्वती गुणश्रीश्च जग श्रीराधिकाः पुनः । दीक्षिताः सूरिभिश्चैव मन्येऽपि बहवः क्रमात् ॥
सम्वच्चन्द्रकराक्षीन्दु वर्षे श्री चन्द्रसूरिणा । सागरपाड़ा सङ्ग्रामे पार्श्वनाथ जिनालये ॥ ५५ ॥
[ ७७ ॥
Jain Education International
५४ ॥ युग्मम्
श्री देवकुलिकाः श्रेष्ठिगयधर विधापिताः । प्रतिष्ठितास्ततः पूज्या अजमेरुं समागताः ॥ ५६ ॥ युग्मम् तत्र स्तूपं प्रतिष्ठाप्य श्रीजिनदत्तसद्गुरोः । ततो विहृत्य सूरीशा बब्बेरकपुरं ययुः ॥ ५७ ॥ तत्र तैदक्षिता गुण-भद्रा-भयेन्दुवाचकाः । यशश्चन्द्र- यशोभद्रो देवभद्रश्च तत्प्रिया ॥ ५८ ॥ ततः श्रीआशिकापुर्या नागदत्ताय साधवे । अदायि वाचनाचार्यपदं श्रीचन्द्रसूरिणा ॥ ५६ ॥ ततो महावनस्याने श्रीजिनचन्द्रसूरिणा । अजित जिननाथस्य विधिचैत्यं प्रतिष्ठितम् ॥ ६० ॥ तत इन्द्रपुरे पूज्यै: शान्तिनाथ जिनालये । स्वर्णमयध्वजा दण्ड- कुम्भाः प्रतिष्ठिताः पुनः ॥ ६१ ॥ तगलायां ततः पूज्यैरजितनाथमन्दिरम् । गुणचन्द्रमुनेः पितृमलाल विनिर्मितम् ॥ ६२ ॥ पुनः करा क्षिनेत्रेन्दुवत्सरे वादलोपुरे । तेनैव कारिताः श्रीमत्पार्श्वनाथ जिनालये ॥ ६३ ॥ स्वर्णमयध्वजा दण्डकुम्भा अम्बापुरी गृहे । स्वर्णकुम्भजा दण्डाः प्रत्यस्थापि महोत्सवात् ॥६४॥ त्रिभिर्विशेषकम्
ततः सुखेन सूरीशा विहरन्तः पुरादिषु । रुद्रपल्लीं गता जग्मु नरपालपुरं ततः ।। ६५ ।। तत्र गुरु पराजेतुं ज्योतिर्विदेकपण्डितः । अभिमान्यकरोत् ज्योतिश्वव श्रीगुरुणा समम् ||६६ ॥ चरस्थिरा दिलग्नेषु प्रभावो दर्श्यतां त्वया । एक लग्नस्य कस्यापीति पृष्टः सच सूरिणा ॥ ६७ ॥ तस्मिन्निरुत्तरीभूते वृष लग्नव्य सूरिणा । अन्तिमैकादशांशेषु मार्गशीर्ष मुहूर्त के ॥ ६८ ॥ श्री पार्श्वनाथ चैत्याग्रे शिलेषा स्वास्थति स्थिरा यावदङ्गमुनीलाब्दं प्रतिज्ञायेति तत्पुरः ।। ६६ ॥ संस्थाप्यतां शिलां कुह्वां वित्रो नीतः पराजयम् । स्वस्थानं स गतः पूज्या रुद्रपल्लीं गतास्ततः ॥ ७२ ॥ त्रिभिर्विशेषकम्
For Private & Personal Use Only
www.jainelibrary.org