SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ / (6) नोबल पुरस्कार विजेतुः प्रख्यातस्य सर चन्द्रशेखर वेङ्कटरमण महाभागस्य प्रशोधनपरिणत्यनुसारं "पृथिव्या साकं वातावरणं न भ्रमती" त्यनेन स्पष्टं भवति यत् 'पृथ्व्या गतिस्तथा वातावरणस्य गतिश्च भिन्न-भिन्ने स्त' इति / (7) यदि वा पृथ्वीयं गतिशीला भवेत्तर्हि वायुयानमध्युष्य निराधारे गगने स्थिरीभय पृथ्व्या गोलो प्रमेच्चेत्तदा यथेष्ट स्थलेऽवतरणं कथं सफलं भवेत् ? तदा वायुयानस्य गतिशीलकरणावश्यकताऽपि निरथिकैव भवति? (8) अथ चेयं पृथ्वी सूर्यस्य गुरुत्वकार्षणेन बद्धाऽऽस्ते / सूर्यश्च सौरिग्रहं प्रति गुरुत्वाकर्षणेनाकृष्टो भवति ततश्च स समस्तं ग्रहमण्डलमादाय प्रधावन्नास्ते / एवं सति पृथिवीयं दिसम्बरमासतो जूनपर्यन्तं तु सूर्येण समाकृष्यमाणा सूर्यस्थ समीपमभितः शक्नुयानाम, परं दिसम्बर पर्यन्तं भूमिस्तु पूर्वतः पश्चिमां दिशं. यायात् तथा सूर्यः 20 कोटिवर्षेषु चक्रमेकं पूर्ण कुर्वाणो 10 कोटिवर्षेभ्योऽनन्तरं पूर्वतः पश्चिमो दिशं गच्छेत् तदा जूनतो दिसम्बरं यावत् पूर्वतः पश्चिमां 66000 मीलमितेन गतिवेगेन यान्तीं पृथिवीं सूर्यः स्वगुरुत्वा कर्षणेन स्वेन सार्ध (अर्थात 10 कोटि वर्षाणि यावत पश्चिमातः पूर्वी दिशं गच्छन्) 720,000 मीलप्रमाणया तीव्रगत्याऽऽकर्षेत् / इत्थमाकर्षण-विकर्षणयोर्वराक्या भूमेगतिरेव कथं भवेत् ? इत्यमेतत् सर्वं भूयसा गाम्भीर्येण, विचारणीयतामहति / विसंवादानां बाहल्यम् वैज्ञानिकस्य जगतः समक्षमीदृशा बहवो विसंवादा अस्माभिरुपस्थापिताः सन्ति, परं कोऽपि नोत्तरयति केवलमात्मनो दृढमूलान् विचारान् यथाकथञ्चित् प्रचारयति / सन्ति वैज्ञानिकानां सविधे सुबहूनि साधनानि / सर्वकारस्यापि तत्रैवाभिनिवेशः। कलेः प्रभावातिशयेन ब्रान्तमस्तिष्का आर्या अपि शास्त्राणि प्रति श्लथ विचाराः सन्ति / आर्यशास्त्राणां वास्तविकं तत्त्वं ज्ञातुं विरला एव प्रवर्तन्ते किञ्च नानाविधानामसुविधानां प्राबल्येन पराभूता इव मारं मारं स्वधर्म-स्वसंस्कृति-स्वशास्त्र-स्वाचारविमुखाः क्रियन्त इति किन्न चिन्ताया विषयः / पृथ्वी स्थिरा विद्यते न च तस्या आकारो गोलो वृत्त रूपो वा / न च सूर्यस्य स्थिरत्यम् / ध्र व प्रदेशे मास षट्कस्याहोरात्रे कथम् ? आस्ट्रेलिया-भारतयोर्मध्ये ऋतुभेदस्ये किं कारणम् ? चन्द्रस्यास्ति स्वकीयः प्रकाशः, समुद्रे वेलाश्चन्द्रमस आकर्षणान्नोद् भवन्ति / गुरुत्वाकर्षणस्य किं रहस्यम् ? साम्प्रतिकं विश्वं कीदृक्, सापेक्षवादस्य कीदृश उपयोग. ? ध्र वतारादीनां कुत्र कीदृश्यः स्थितयः ? विज्ञानवादनाम्ना ऽऽरोपितानां सिद्धान्तानां कुत्र कथं नैर्बल्यम् ? एपोलोयानस्य चान्द्री यात्रा किं वास्तविकी ? विज्ञानवादिनां परस्परं कुत्र कथं विवादाः ? इत्येतत् सर्वं स्पष्टतया निदर्शयितुमस्माभिनॆकशो ग्रन्थाः प्रकाशिताः / पालीताणा नगर्यां शास्त्रीय प्रमाणानुसारं महता व्ययेन 'जम्बूदीप' स्य प्रवर स्थापत्यमपि निर्मापितम् / त्रैमासिक रूपेण 'जम्बूद्वीप' नामकं पत्रमप्यस्माभिः प्रकाश्यते / अतो जिज्ञासवो नितान्तमामन्त्र्यन्ते लाभप्राप्तये सत्यपरिज्ञानाय च। शास्त्राणि नैव वितथानि भवन्ति लोके, दासो मतेः परजनस्य तथात्वमेति / विज्ञानमुन्नततरं जिनभाषितं तत्, विज्ञाः समीक्ष्य सुदृढं परिशीलयन्तु // 1 // तीर्थे शत्रुञ्जयाख्ये महति गुणमये पालिताणाख्यपुर्या, जम्बूद्वीपं प्रमाणविरचितमुचितं वीक्ष्य सत्यं विविच्य / याथातथ्यं निरूप्यं, नहि-नहि वितश्चे भ्रान्तमार्गे पतित्वा, स्वीयं सत्यं सुवर्त्म प्रथितमतिशुभं त्याज्यमित्यस्ति वेद्यम् / / 2 // . म्म्म्म्म्म्म्म्म्म्म जैन-भू-गोल-विज्ञानम् : स्व० मुनि अभयसागरो गणी | 155 M . www.jaine
SR No.210825
Book TitleJain Bhugol Vigyanam
Original Sutra AuthorN/A
AuthorAbhaysagar
PublisherZ_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf
Publication Year1997
Total Pages6
LanguageHindi
ClassificationArticle & Geography
File Size883 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy