SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ......... . ............. .......... . ....................... .. ... साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ । मात्रसाण पूणतावि दक्षिणामरीकातो दक्षिणध्र वस्पर्शपूर्वकं विषुवृत्तरेखायां गमनम् । ६. पूर्व-पश्चिम-भागयोरेव साहसयात्राः। ७. केप्टन-जे० रासमहोदयस्य यात्रावृत्तम् । ८. दि इण्टरनेशनल सर्वे कम्पनी प्रतिवेदम् । ६. केप्टिन मीले, प्रभृतीनां यात्रायां ध्र वतारकदर्शनम् । १०. उत्तरदक्षिणध्र वक्षेत्रोदिनानां रात्रीणां च साम्याभावः । ११. धर्म पुरोहित-फादर जोन्सस्य यात्रा चेन्यादीनि वर्णनानि पदे-पदे वर्तमान वैज्ञानिक सम्मतस्य पृथ्व्या गोलकारता-सिद्धान्तस्य तथ्यराहित्य प्रकटने समर्थानि विद्यन्ते । पृथिव्या गतिविषये साम्प्रतं यन्त्रवादस्य महिम्ना मानवस्य सकलं जीवनमपि यन्त्रवदेव गतिशीलत्वं विशिष्यानुभवति किन्तु सहैव जडत्वेन तथा मण्डलाकारेण भ्रमण-क्रियात्वेन लक्ष्यहीनत्वमपि वर्धत इति नितान्तं चिन्तावहम् । विज्ञाननाम्ना विज्ञानवादं प्रचारयन्तः केचन वैज्ञानिक-मान्याः सम्प्रति कल्पनाप्रचुराणि रहितान्य स्थिराणि वैज्ञानिकसत्यानीति ख्यापयन्तश्च रहस्यानीव प्रकाशयन्तेतमाम्। यथा ते प्रतिपादयन्ति यत् 'पृथ्वी गोलाकारा विद्यते' किञ्च तथाविधं प्रमाणयितु नानाविधान्यतथ्यान्यति तर प्रयतन्ते तथैव 'पृथ्वी परिभ्रमति सूर्यश्च स्थिरोऽस्ति' सोऽयं वादोऽपि भूयसा घटाटोपेन प्रचारितः प्रसारितश्च प्रतीयते । भारतीयाः शास्त्रकारास्तु तथा न मन्वते तेषां तु निश्चितं मतमस्ति यत् पृथिवी स्थिरां विद्यते सूर्यश्च भ्रमतीति । आधुनिका वैज्ञानिकाः पृथिव्या भ्रमणं तिसृभिर्गतिभिर्भवतीति दर्शयितु-१. पृथिव्याः प्रथमां गति धूस्संज्ञस्वीयाक्षोपरितनी गति, २. सूर्यमभितो वतिनी गति तथा ३. सूर्येण सहवर्तिनी गति च सूचयन्ति । एतासां गतीनां सम्यक् समन्वयं संसाध्य पृथिवी गतिमती भवतीति तेषां सिद्धान्तः । एतदेव न, अपितु सिद्धान्तस्यास्य पूर्तये-१. दैनिक-२. वार्षिक-३. केन्द्रीय गतीनां व्यवस्था-विधानेन सहैव नानाविधा उच्चावचा निर्धारणा अपि कृताः । सर्वामु गतिष्वपि परस्परं वैमत्यवारणाय गतीनामपि शीघ्रत्वं श्लथत्वं परीतत्वं विपरीतत्वं वा निर्धार्य स्वेष्टं साधितम्। ततोऽप्यग्रे सूर्यस्य प्रदक्षिणायै पृथिवी तदीयेन गुरुत्वाकर्षणेनाकृष्टा भवतीत्यपि कल्पितम् । तेनापि यदा स्वेष्ट-सिद्धान्त साधनायां बाधा उपस्थितास्तदा 'वातावरणमपि पृथिव्या समं भ्रमती' ति युक्तिः प्ररूपिता । एवमेष बहव्यो युक्तयो निरूपिता अपि तेषां सिद्धान्तेषु यथेष्टं बोधमितु समर्था नाभूवन् । हन्त ! 'भक्षितेऽपि लशुने न शान्तो व्याधि' रित्याभाणकः सत्यतां प्राप्तः । गतीनां प्रतिघण्ट त्मिक प्रवर्तनं दीर्घ-सुदीर्घजवेन प्रधावनं तथा सम्पूर्णेन ग्रहमण्डलेन सह परिभ्रमणं च स्वीकुर्वतां साम्प्रतिक-वैज्ञानिकानां स्वीकृतिष्वपि बहुविधानि वैमत्यानि प्रादुर्भवन्ति । यथा हि (१) पृथिव्यां ७,२०,०००, ६६,००० तथा १,००० मील मितेन वेगेन भ्रमन्त्यां सत्यां भूमिष्ठाः सर्वे पदार्थाः सुव्यवस्थिताः कथमिव स्थातु सम्भवेयुः ? (२) पुनरेतावत्या तीव्रगत्या धावमाना पृथिवी, पश्चिमतः पूर्व दिशं गच्छन्ती यदि भवेत् तदा सदा सर्वदा पृथ्व्यावायोः सम्मुखीनाया दिशो घर्षणं किरात् प्रभूतमनुभवगम्यं भवितुमर्हति ? (३) किञ्चैतावता तीव्रण वेगेन पृथ्वी भ्रमन्ती स्यात् तदा गगनमुड्डीनः पक्षी पुनः स्वं नीडं कथं प्राप्तुं शक्नुयात् ? (४) तथा च भूतलं स्थितो मृगयाकरो जनः स्वं लक्ष्यं साधयितुं कथं प्रभवेन्नाम ? (५) वातावरण दृष्ट्याऽपि जगति किमपि वाहनं शकटं मरुच्चरं वायुयानं वा स्वेन साकं वातावरणमप्यादाय धावमानं भवेत्तदिदं कथं सम्भवेत् ? १५४ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य Dim ............ H Dhumi MPTIMITATIL . ... www.jainelibar :::::::::unisualist. ܫܩܪܕܰܪܰ
SR No.210825
Book TitleJain Bhugol Vigyanam
Original Sutra AuthorN/A
AuthorAbhaysagar
PublisherZ_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf
Publication Year1997
Total Pages6
LanguageHindi
ClassificationArticle & Geography
File Size883 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy