________________
प्रस्तावना
बाहुलकेन दैशिकानामप्युल्लेखाशिकमपि प्रायस्तद्भवत्वेन स्वीकुर्वन्ति । ४.३३ सूत्रव्याख्यानावसरे भामहेन देशसङ्केतेत्यादिनतस्यार्थस्य स्पष्टमुकत्वात् ।
हेमोऽप्याह-'गोणादयः' (८ । २ । ७३) गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं निपात्यन्ते, तद्यथा-गौः गोणी गावी। त्रिपञ्चाशत्तेवण्णा। त्रिचत्वारिंशत्-तेपालीसा। इति । तत्समस्तु न संस्कृतात्पृथगिति न तद्विषयकः प्रयत्नः कस्यापि । ____ अथ कोऽयंप्राकृतसूत्रप्रणेता वररुचिः कदा समभवत् , कदा चैतत्सूत्राणि प्रणिनायेति वृत्तं सम्यक्तया निश्चेतुं न शक्यते । एको वररुचिः सुप्रसिद्धविक्रमराजसमानकालिकोऽप्युपलभ्यते । तथाहि
'धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नवविक्रमस्य ॥' इति ।
अन्यत्र
'पाणिनि सूत्रकारं च भाष्यकारं पतञ्जलिम् ।
वाक्यकारं वररुचिम्................ ॥' इति पाणिनिसमकालिकः कात्यायनाऽपराभिधः प्रतीयते। महाभाष्यकारैरपि 'तेन प्रोक्तम्' (४ । ३ । १०७) सूत्रे 'वररुचिना प्रोक्तो ग्रन्थः वाररुचः' इति चोदाहृतम् । तथा च प्राकृतमजर्याम्
'प्रसीदन्तु च वाचस्ता यासां माधुर्यमुच्छ्रितम् । प्राकृतच्छनना चक्रे कात्यायनमहाकविः ॥ व्याकर्तु प्राकृतत्वेन गिरः परिणतिं गताः ।
कोऽन्यः शक्तो भवेत्तस्मात्कवेः कात्यायनादृते ॥' इति । अयमेव कात्यायनापराभिख्यः श्रौतसूत्रकारः पाणिनीयसूत्रवार्तिककारो रूपमालाप्रणेता वृहत्संहितानिर्माता चेत्यत्र दृढतरप्रमाणाऽभावेपि विरोधं नाऽऽकलयन्ति सूरयः । कथासरित्सागरकथामअर्यादावुपवर्णितोऽपि वररुचिविलक्षणप्रतिभाशालित्वेन नोक्तार्थे विरोधमवतारयतीति विवेचकैर्विवेचनीयम् । . ___ अन्यो वाप्ययं वररुचिः स्यात् । तथाप्येतत्प्रतीयते यदयं सर्वेषु प्राकृतवैयाकरणेषु प्रथम प्राचार्यः।
एतत्सूत्रप्रकाशवृत्तिप्रणेता भामहः कदा समभवत् इत्यप्यतिदुरूहताङ्गतो निर्णेतुम् ।
भामहप्रणीतमलङ्कारलक्षणमप्यस्तीति श्रयते । स च काश्मीरदेशीयः परमप्राचीन- वेति मल्लकीकरोपाख्यामनाचायनिरूपितम् । एतेनापि वररुचेः परमपुराणता प्रतीयते । इत्यलं पल्लवितेन ।
अन्यत्र प्राकृतसूत्रेषु भाषाबाहुल्येन कार्यवैविध्येन च वररुचेः प्राचीनता प्रदर्श्यते। ___यच्च कार्य वररुचिना बाहुलकेन श्रादिशब्देन च संगृहीतं तदर्थमपि अन्येषां सूत्र
.