SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना सूत्रे ), एवमपभ्रंशविचारस्यावश्यकत्वाद् वररुचिना कथमुपेक्षित इति विप्रतिपत्तो कश्चिद् इयमपूर्णतैव वररुचेरिति । श्रासां प्रादुर्भाव एव नेति त्वन्यः । अपरे तु-वररुचिना'दाढादयो बहुलम्' (४।३३) इति सूत्रकरणादेवाऽपभ्रंशोऽपि संगृहीत एव । तस्य च भामहेन आदिशब्दोऽयं प्रकारार्थः, तेन सर्व एव देशसङ्केतप्रवृत्ता भाषाशब्दाः परिगृहीताः, इति व्याख्यातत्वात् । अपभ्रंशश्च देशसङ्केतप्रवृत्ता एव भाषाः । तदुक्तं वृद्धवाग्भटेन- . 'अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम्' ॥ इति । तथा च काव्यादर्श दण्डी_ 'यदा च आभीर्यादयो देशभाषाः काव्यनाटकेषु निबद्धास्तदाऽपभ्रंशपदेन व्यवह्रियन्ते । तदुक्तम् तेन 'शौरसेनी च गौडी च लाटी चान्या च तादृशी। याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥ आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥' इति । (१। ३५-३६) यत्तु अपभ्रंशपदेन भारतीयाः प्रचलिता भाषा गृह्यन्ते, ताश्च निबध्यन्ते काव्यनाटकेषु । तदुक्कं नाव्यशास्त्रे भरतमुनिना 'शौरसेनी समाश्रित्य भाषा कार्या तु नाटके । अथवा. छन्दतः कार्या देशभाषाप्रयोक्तृभिः ॥' इति । ( १५-४६) अधुना प्रचलिततत्तद्देशभाषास्वपि वनदेशे यात्रागन्धर्वगानम् , नैपाले कूर्माचले च हरिश्चन्द्रादिनर्तनम् उपलभ्यत एव । अतोऽपभ्रंशस्य प्राकृतपदेन प्रहीतुमशक्य. त्वादुचित एव तदनुल्लेखः प्राकृतप्रकाश इति । तत्तु दण्डिविरोधादुपेक्ष्यम् । वररुचिसमयेऽपभ्रंशस्य व्यवहारानुदय इति तु न सम्यक् प्रतिभाति । 'त्रिविधं तच्च विज्ञेयं नाव्ययोगे समासतः। समानशब्देविभ्रष्टं देशीमतमथापि वा।' इति भरतमुनिनाऽपि तस्य प्रदर्शितप्रायत्वात् । यथा 'गौरित्यस्य गावी गोणी गोपोतलिकेत्येवमादयो बहवोऽपभ्रंशाः' इति भगवता पतञ्जलिना महाभाष्येऽपभ्रंशस्य व्यवहृतत्वात् स्वयं दाढेत्यादिसूत्रप्रणयनाच- स्यादेतत् । सर्वमेवैतद् प्राकृतं तद्भवः, तत्समः, देशी चेति त्रिधा विभजन्ते सूरयः । तदाह दण्डी-तद्भवस्तत्समो देशीत्यनेक: प्राकृतक्रमः।' इति। तत्र यद्यपि तद्भवप्राकृतव्याकृत्यर्थमेव प्राकृतवैयाकरणानां प्रयत्नः । बदुक्तम्-'अथ प्राकृतम् ।' (८१॥ १) इति सूत्रे व्याख्यानावसरे हेमेन–'संस्कृतानन्तरं प्राकृतस्याऽनुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्यइति झापनार्यम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम्' इति । तथापि ततप्रदेशेषु
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy