________________
प्रस्तावना
तच्च प्राकृतं वररुचिमते-प्राकृत-पैशाची-मागधी-शौरसेनी-भेदेन चतुर्दा । तासु पैशाची मागधी च शौरसेनीविकृती, प्रकृतिःशौरसेनीत्युभयत्र दर्शनात् । शौरसेनी संस्कृतविकृतिः प्राकृतवत् । 'प्रकृतिः संस्कृतम्'-इति दर्शनात् । शौरसेन्यामनुक्त कार्य नवभिः परिच्छेदैः प्रतिपादितप्राकृतानुसारि भवति 'शेष माहाराष्ट्रीवद्' इत्यत्र माहाराष्ट्रीपदेन तस्यैव प्रहणात् । तथा च काव्यादर्शे
___महाराष्ट्राशयां भाषां प्रकृष्टं प्राकृतं विदुः । इति । हेमस्तु-चूलिकापैशाचिकम् १ आर्ष प्राकृतम् २ अपभ्रंशम् ३ चेत्यधिकभेदैः सप्तधा विभजते। तथा च भेदप्रतिपादकानि सूत्राणिआर्षम् । ८।१।३। चूलिकापैशाचिके द्वितीयतुर्ययोराद्यद्वितीयौ। ८ । ४ । ३२५ । स्वरागां म्वराः प्रायोऽपभ्रंशे। ८ । ४ । ३२९ ।
प्राकृतसर्वस्वकारमार्कण्डेयेन भाषा-विभाषा-अपभ्रंश-पैशाची-भेदाद् भाषाधतुर्धा विभकाः।
तत्र भाषा-माहाराष्ट्री-शौरसेनी-प्राच्या-अवन्ती-मागधी-भेदेन पश्चधा। अर्द्धमागधी तु मागध्यामेवान्तांविता । विभाषा-शाकारी १ चाण्डाली २ शाबरी ३ श्राभीरिकी ४ शाक्की (शाखी) ५ चेति पञ्चधा।
अपभ्रंशः-आी द्राविडी च विना सप्तविंशतिधा च विभक्तः।
अन्या अपि तिस्रो भाषाः स्वीकृताः-नागर-भ्राचढोपनागरभेदेन । पैशाचीभाषा तिसषु नागरभाषासु विभका। तद्यथा-कैकेयी १, शौरसेनी २, पाश्चाली ३ च । रामतर्कवागीशेनाऽपि एवमेव प्रकटितम् । सर्वैरपि प्राकृतवैयाकरणैर्माहाराष्ट्री-पैशाची-मागधीशौरसेनी चैताः प्राकृतभाषाः स्वीकृताः। काव्यालङ्कारे रुद्रटो भाषाणां तिस्रो विधाः प्राह-'प्राकृतं संस्कृतश्चैतदपभ्रंश इति त्रिधा।' इति । काव्यादर्श दण्डी च
'तदेतद्वादमयं भूयः संस्कृतं प्राकृतं तथा । ... अपभ्रंशश्च मिश्रं चेत्याहुराप्ताश्चतुर्विधम् ॥ इति । १ । ३२ ।
चतुर्विधा हि प्रन्याः संस्कृतनिबद्धाः केचित् , प्राकृतनिवदाः केचित् , केचिदपभ्रंशनिबद्धाः, केचिदासां साइर्येण निबद्धा मिश्रा इत्युच्यन्त इत्यर्थः । 'संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् । आसारादीन्यपभ्रंशो नाटकादिषु मिश्रकम् ॥ इति च ।।
पुराणवाग्भटोऽपि वाग्भटालङ्कारे (२।१) संस्कृतप्राकृतापभ्रंशभूतभाषितेतिभेदेन चतुर्षा विभजते ।
अर्वाचीनोऽपि अलङ्कारतिलके ( १५-३), एवं रुद्रटश्च काव्यालदारे (२।११