________________
प्रस्तावना
हेमोऽपि - प्रकृतिः संस्कृतम् । तत्र भवं तत श्रागतं वा प्राकृतम् । इति । तथा च गीतगोविन्दे रसिकसर्वस्वः – 'संस्कृतात्प्राकृतम् इष्टं ततोऽपभ्रंशभाषणम्' इति । शकुन्तलायां शङ्करोऽपि 'संस्कृतात्प्राकृतं श्रेष्ठं ततोऽपभ्रंशभाषणम्' इति प्रमाणस्वेनोदाजहार-संस्कृताद् श्रेष्ठं प्राकृतं जातम्, ततोऽपभ्रंशः ।
केचित्तु — प्रकृत्या स्वभावेन सिद्धम् प्राकृतम् । ततब वैयाकरणैः साधितं हि संस्कृतमित्यभिघीयते । ऋतो न संस्कृतमूलकं प्राकृतम् । प्रत्युत प्राकृतमूलकमेव संस्कृतम् — इत्याहुः ।
अपरे तु — वेदमूलकमिदम् । तनत्वनादिप्रत्ययानाम्, अम्हे - अस्मे श्रादिपदानां, लिङ्गचचनविभक्त्यादीनाञ्च वैदिकैः प्रयोगः साम्यदर्शनात् । एतन्मूलकं च संस्कृतम्इति वदन्ति ।
साम्प्रदायिकैस्तूभय॒मपि नाद्रियते – यदि स्वभावसिद्धं प्राकृतम्, तर्हि कोऽसौ स्वभावः कीदृशश्च, येनेदृगेव भाषणं स्यात् किंसमवेतश्च । जनसमवेतश्चेद् 'दैवी वाग् व्यवकीर्णेयम्' इत्यस्मदभिहिते पक्षपातः । पारमेश्वरे तु स्वभावे वैरूप्यं नोपपद्यते-न यग्नो शैत्यं कचिदपि कदाप्युपलभ्यते । एवं तत्तद्भाषाभेदः सुतरान्नोपपद्यते ।
सर्वासामेव भिन्नानामपि पारमेश्वरस्वभावसिद्धत्वे तु भाषापरिज्ञानिनां विदुषां महान् कोलाहलो भविष्यति ।
अथ च यदीयं भाषा वेदभाषासमुद्भवा तत्समकालिका संस्कृतात् प्राचीना वा स्वीक्रियते तर्हि पाणिनीयव्याकरणस्यापूर्णता स्यात्, तत्र प्राकृतस्याव्याकृतत्वात् । भगवता पाणिनिना च तत्र तत्र बाहुलकेनाऽपि वैदिकशब्दव्याकृत्या स्वव्याकरणस्य पूर्णतायाः प्रदर्शनात् । तथा च गावी - गोणी - गोपोतलिकेत्यादीनामपि श्रसाधुशब्दत्वंव्यवहारो नोपयुज्यते । प्रत्युत संस्कृताद्विकृतस्य प्राकृतस्येव प्राकृताद्विकृतस्य संस्कृतस्यैवापभ्रंशव्यवहारापत्तिः स्यात् । न तथा व्यवहारस्तथाव्युत्पन्नानामपीष्टः । न यस्ति राजाज्ञा 'पाणिनीयादिव्याकृतस्य नाऽपभ्रंशव्यवहारः' इति !
लिङ्गवचनसाम्यन्तु न दृढतरं प्रमाणम् । न हि आङ्ग्लभाषायाः 'फादर' इति शब्दः उच्चारणसौकर्येणोच्चरितस्य पितृशब्दस्य प्रकृतिरिति कोऽपि प्रेक्षावान् मनुते । तथा च- 'डाटर' इति शब्दं दुहितृशब्दस्य । नच कोऽपि 'तात' इत्युच्चारयितव्ये 'टाट' इति रटन् भारतीयो बाल आङ्ग्लभाषापाठकस्तद्देशीयो वा गण्यते ।
तो युक्तमुत्पश्यामः - प्रकृतिः संस्कृतम्, ततः प्राकृतमिति । तथा च प्राकृतमयम्- 'व्याकतुं प्राकृतत्वेन गिरः परिणतिं गताः' इति ।
वेदमूलकत्वेऽपि न किमपि प्रमाणम् ।
अस्तु वा यदपि तज्ज्ञानायाऽवश्यं प्रयतितव्यम् । यतोऽत्र भाषायां सुललिताः प्रबन्धाः सन्ति । तदुक्तम्
'अहो तत् प्राकृतं हारि प्रियावक्त्रेन्दुसुन्दरम् ।
सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिर्झराः ॥ इति ।