________________
२२२
प्राकृतप्रकाशे
शेषः
उक्कादन्यः शेषः । प्रत्ययसमासतद्धितलिङ्गवर्णादिविधिः संस्कृतादवगन्तव्यः । इह ग्रन्थविस्तरभयान्न दर्शितः ॥ १८ ॥ इति श्रीभामहविरचितायां मनोरमायां निपातसंज्ञाविधिर्नाम नवमः परिच्छेदः ।
G+
शेषाः ' संस्कृतात् — उक्तेभ्योऽन्ये शेषाः । सुप्तिङ्तद्धितसमासप्रत्याहारकारकलिङ्गसंख्यादयोऽत्र नोकाः, ते संस्कृतात् समीक्ष्यावगन्तव्याः । उक्तं च- 'प्राकृतं संस्कृतयोनि' - इति । प्रकृतेः संस्कृतात् श्रागतं प्राकृतम् । संस्कृतं च
इन्द्रश्चन्द्रः काश्यपश्च कपिलः शाकटायनः । पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥
एभिः प्रणीतं प्रकृतिप्रत्ययविभागेन । तत्संपादनं लोकप्रसिद्धम् । क्वचिच्च उक्तलक्षणमपि बाधित्वा एकदेशसंस्कृतमुपपाद्य व्याक्रियते । यथा - ' वच्चन्ते पिम्मि भणि' । व्रजति प्रिये भणितम् । व्रज् गतौ । शतृ प्रत्यये । 'चो व्रजिनृत्योः' इति जकारस्य 'च' इत्यादेशः । 'न्तमाणौ शतृशानचो:' इति न्त इत्यादेशः । एवं वच्चन्तशब्दात् सप्तम्येकवचने हि: । 'डेरेम्मी' इति ए इत्यादेशः । क्वचिदपि लोपः- न्तगतस्याकारस्य लोपः । वच्चन्ते । 'सर्वत्र नवराम्' इति रेफस्य 'कगचजे 'ति यकारस्य च लोपः । 'डेरेम्मी' इति म्मि । पिश्रम्मि । शतृ प्रत्ययाविधानात् संस्कृतस्यैकदेशमुपपाद्य व्याख्यातम् । क्वचिच्च संस्कृतोपपाद्यमाश्रित्य एकदेशेन व्याख्यायते । यथाशिरस्-शब्दस्य तृतीयैकवचने टाविभक्तौ 'अन्त्यस्य हलः' इति सलोपः । ‘टामोर्णः’ इति टाप्रत्ययस्य णः । 'ए च सुप्यङिसोः' इति एत्वम् । 'शषोः सः' इति सः । एवं सिरेण इति प्राप्नोति । संस्कृते शिरसा - इति तृतीयासिद्धमङ्गीकृत्य 'शषोः सः' इति सः । सिरसा - इत्यपि भवति । एवं भगम् = ऐश्वर्यम् अस्यास्तीति मत्वर्थे 'विलोलालनन्तेन्ता मतुपः' इति मतुपः स्थाने वन्त इति । ततः तृतीयैकवचने टा, 'टामोर्णः ' इति णः । 'ए सुप्यखिङसोः' इत्येकारः । भगवन्तेण इति । संस्कृते सिद्धं भगवता - इति रूपमाश्रित्य, 'कगचजे 'ति गलोपः । 'ऋत्वादिषु तो दः' इति दकारः । भावदा । वकारस्यापि लोपे 'अदा' इत्यपि भवति । एवम् किम् शब्दस्य सप्तम्येकवचने कस्मिन् काले इति विवक्षामाश्रित्य 'आहे इत्रा काले' इति पर्यायेण भवतः । किमः कः " इति कः । ' क्वचिदपि लोपः' इत्यलोपः । काहे, कइत्र इत्येतौ एव भवतः । संस्कृतसिद्धम् कदा-इति प्रयोगमाश्रित्य 'कगचजे' ति दलोपः । कप्रा- इत्यपि भवति । एवं यथासिद्धं कविप्रयोगमाश्रित्य व्याख्येयम् ॥ १८ ॥
इति श्रीमहामहोपाध्याय पं० मथुराप्रसादकृतायां प्राकृतप्रकाशस्य चन्द्रिकाख्य'टीकायां निपातविधिर्नाम नवमः परिच्छेदः समाप्तः ।
१. संजीवन्यादिसमतोऽयं पाठः ।