________________
सुहृवचस्तत्परिभाव्य भूपति -
स्तमादरेण प्रणनाम पादयोः। भग पौन शिसौगार्द ..
करोमि सद्यः परिशुद्धिमागसः।।४८ ।। मुनिश्च राज्ञः 'स्वशिरश्चिकर्तिषो
निवार्य हस्तेन हृदिस्थमब्रवीत्। सविस्मयस्तं समपृच्छदादरा --
पितामहादेगतिमुर्वरापतिः।।४६ ।। ततोऽवधिज्ञाननिरूपितं मुनि -
यथावदाख्यन्नृपतेर्मनीषितम्। पितामहस्ते तपसा च पञ्चमा___त्परं नृपः स्वर्गमगच्छदूर्जितम् ।।५० ।। स तत्र दिव्याभरणैर्विभूषितो
नयोदितादित्यनिभश्च तेजसा। सुखानि देवीनिवहेन निर्विश' -
__ननूनकामो रमते दिवानिशम् ।।५।। विषेण हत्वा निजमेव वल्लभं
तवापि माता व्यजनिष्ट कुष्ठिनी । मृतापि सा दुर्गतिमभ्युपेयुषी ___ सुदुःखिता सीदति वत्स पञ्चमीम् ।।५२ ।। यशोधरस्ते जनकः पतत्रिण
निहत्य तद्दोषवशेन कृत्रिमम्। बभूव केकी शललोऽथ मीनक
श्छागो द्विवारं क्रमतश्च कुक्कुटः ।।५३ ।।
५. कर्तितुभिचलोः २. भुजान: