________________
निगृह्य शाखासु नितम्बिनीजने
प्रसूनगुच्छानवलूय चिन्वति। मधुब्रतानां ध्वनिरुद्गतोऽभवत्
'प्रवेदनाध्वान इव द्रुमैः कृतः।।६ ।। नतध्रुवां 'केचिदनोकहा वने
प्रसूनशाखास्ववलम्बतां गताः। ततः प्रभृत्युभविनो विरेजिरे
वराङ्गनाङ्गा इव कल्पपादपाः ।।७।। प्रवालशय्यामधिशिश्यिरे मुदा।
लतागृहे काश्चन वारयोषितः। मधूत्सवासादितरागसंपदा
समन्ततः पल्लविता इव क्षणे ।। || पुरो दथानः कुसुमावली प्रियां
प्रसूनतल्पे तरुमूलकल्पिते। नृपः स रेमे परितोऽवधारयन्
वसन्तगीतं वनितामुखोद्गतम् ।।६।। विशोधयन्व्यालमृगान्सतस्करान्
स चण्डकर्मा परितो वनं तदा। अकम्पनं नाम महामुनीश्वरं ___ददर्श रम्यं तरुमूलमाश्रितम् ।।१०।। उपस्थित साधुसमाथिचेतसा
___ मुनि विनीतः स विनम्य पादयोः। अपृच्छदेवं प्रतिपत्तुमिच्छया
करोति हि श्रेयसि भव्यतागुणः ।।११।।
१. पूत्कारशनः २. चक्षाः ३. ज्ञातुम