________________
किं विषेण मयि नोपहतेऽपि तन्वि ते मनसि शाम्यति कोपः । कासरास्त्रपरिखादमतृप्ता यन्मदूरुमपि खादसि गृद्धया ॥ ८० ॥ इत्यनुस्मृतिकरः स च वस्तः सोऽपि दग्धमहिषश्च दिनेषु । मक्षिती विजहतुर्नृपमात्रा जीवितव्यमथ किं विदधाताम् । । ८१ । । ती विमुच्य तनुमार्तमनस्कौ कर्मणा बलवता ह्युपनीती । तत्पुरे श्वपचवेश्मनि कृच्छ्रे कुक्कुटौ सममुपाजनिषाताम् ।। ८२ ।। अथ ती प्रसङ्गपरिलोकितावुभा - पनोयं दर्शयति चण्डकमण ।
तनयाविव त्वमभिवर्धयादरा
दिति तं जगाद नृपतिर्यशोमतिः ।। ८३ ।।
हरिणी
तरलनयनौ तारश्यामैः पतत्रपरिच्छदै
वयसि दधतौ चूडारलं जपाकुसुमच्छवि । कनकनिकषच्छायाचौर्योल्लसच्चरणाङ्कुरी
'सुखमवृधतां तौ तद्वासे सुपञ्जरवासितौ ।। ८४ ।।
शार्दूलविक्रीडितम्
राजा सोऽपि यशोमतिः प्रविलसत्साम्राज्यलक्ष्मीपतिः कुर्वन् काव्यबृहस्पत्तिप्रभृतिभिः संदर्शितं मन्त्रिभिः । संतृप्यन्नमृतेन क्लृप्तविधिना श्रीवैद्यविद्यार्णव
यतिन्वजयसिंहतां रणमुखे दीर्घं दथौ धारिणीम् ।। ८५ ।।
इति श्रीवादिराजसूरिविरचिते यशोधरचरिते महाकाव्ये तृतीयः सर्गः ॥ ॥
२. वृद्धि प्राप्तवन्ती
4. गृह
२. रक्तवर्णम्