SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ किं विषेण मयि नोपहतेऽपि तन्वि ते मनसि शाम्यति कोपः । कासरास्त्रपरिखादमतृप्ता यन्मदूरुमपि खादसि गृद्धया ॥ ८० ॥ इत्यनुस्मृतिकरः स च वस्तः सोऽपि दग्धमहिषश्च दिनेषु । मक्षिती विजहतुर्नृपमात्रा जीवितव्यमथ किं विदधाताम् । । ८१ । । ती विमुच्य तनुमार्तमनस्कौ कर्मणा बलवता ह्युपनीती । तत्पुरे श्वपचवेश्मनि कृच्छ्रे कुक्कुटौ सममुपाजनिषाताम् ।। ८२ ।। अथ ती प्रसङ्गपरिलोकितावुभा - पनोयं दर्शयति चण्डकमण । तनयाविव त्वमभिवर्धयादरा दिति तं जगाद नृपतिर्यशोमतिः ।। ८३ ।। हरिणी तरलनयनौ तारश्यामैः पतत्रपरिच्छदै वयसि दधतौ चूडारलं जपाकुसुमच्छवि । कनकनिकषच्छायाचौर्योल्लसच्चरणाङ्कुरी 'सुखमवृधतां तौ तद्वासे सुपञ्जरवासितौ ।। ८४ ।। शार्दूलविक्रीडितम् राजा सोऽपि यशोमतिः प्रविलसत्साम्राज्यलक्ष्मीपतिः कुर्वन् काव्यबृहस्पत्तिप्रभृतिभिः संदर्शितं मन्त्रिभिः । संतृप्यन्नमृतेन क्लृप्तविधिना श्रीवैद्यविद्यार्णव यतिन्वजयसिंहतां रणमुखे दीर्घं दथौ धारिणीम् ।। ८५ ।। इति श्रीवादिराजसूरिविरचिते यशोधरचरिते महाकाव्ये तृतीयः सर्गः ॥ ॥ २. वृद्धि प्राप्तवन्ती 4. गृह २. रक्तवर्णम्
SR No.090547
Book TitleYashodharcharitam
Original Sutra AuthorN/A
AuthorRajsuri, Pannalal Jain
PublisherShivsagar Digambar Jain Granthamala Rajasthan
Publication Year
Total Pages90
LanguageHindi
ClassificationBook_Devnagari & Story
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy