________________
कोपतो नरपतिर्वणिजः स्वं सारभूतमक्लुप्य समस्तम् । तं भुलायमहरत्तरसा वै चित्रकर्मविधिना विजिघांसुः ।।७१।। कीलितेषु चरणेषु चतुर्षु क्षारवारिपरिशोषितकुक्षिम् । ऊर्ध्वजानुमदहन्नृपभृत्यास्ते कृपाविरहिणो महिषं तम् ।।७२।। पक्वभागमवकृत्य पुरस्ताद्दत्तमाशु परिखाद्य तदीयम्। इत्यवोचत यशोमतिमाता नास्त्यनेन मम चेतसि तृप्तिः।७३ ।। किं तु मे रसवतीविधृतस्य वस्तकस्य परिखण्डितमूरुम् । यच्छतेति मनुजाः पुनरेवं चक्रुरेवमवदन्नपि चेटयः ।।७४।। पूतिगन्धि बहुभित्रणरन्थैः क्लिन्नमङ्गमथुनामृतमत्याः। किनिमित्तमथवेयमजस्रं मासमात्त नितरां तदपथ्यम् । ७५ ।। कर्म दुष्टमनया कृतमुच्चस्तद्विपक्त्रिममिदं फलमल्पम्*। वेधते पुनरिहैव हि साक्षात्कर्म तीव्रपरिणामनिबद्धम् ।।७६ ।। अष्टभङ्गमगमन्निशि जारं मारतुल्यमवमुच्य निजेशम् । मृत्युलोकमनयत्सह मात्रा 'भूमिवल्लभमियं हि विषेण ।।७७ ।। इत्थुपात्तवचने निकटस्थे चेटिकासदसि खण्डितवस्तः। इत्यमन्यत निरीक्ष्य निजस्त्रीं क्रोधतो घुरुधुरायितधोणः ।।७।। तादृशं तु कुलटे वपुरेतत्किंनिमित्तमभवत्परिशीर्णम् । सत्यमेव स पतिस्तव कुष्ठी तत्समागमकृतेयमवस्था । ७६ ।।
...
""
:".
* तद्विपाकिमिदं फलमल्पम् पाटान्तर
५ रामानम्
- ५०
----