________________
तद्वचासि परिभाव्य स राजा तं 'जनंगमगृहादजपोतम्। आनिनाय परिशुद्धयति तस्मिन्सूपकृत्सरसमांसमपाक्षीत् ।।२।। तद्यथेष्टमवखाद्य सहान्न ब्राह्मणा वचनमित्थमवोचन्। स्वर्गतस्तु सुचिर सह मात्रा तृप्तिमृच्छति यशोधरभूपः।।६३।। विप्रवाचमवधार्य गरजश्नेतसीदागत गृहपतिः । सोऽहमस्मि हि यशोधरनामा पुत्र एष मम भूपतिरास्ते ।।६४ ।। एष में परिजनः सकलोऽपि मन्निवासपुरमुज्जयिनीयम्। रत्नमन्दिरमिदं मम देवी यत्र मामिह जघान विषेण ।।६५।। सा पुनः क्व वनिता न मयासौ दृश्यते मनसि यत्नवतापि। जारमन्दिरगता रमते नु मृत्युवासमगमन्नु न जाने।।६६ ।। छागजन्मनि वसन्नहमद्य घोरदुःखमिह सोऽनुभवामि । एष घोषयति मां तु दिविस्थ ब्राह्मणैर्नरपतिः पितृभक्त्या ।।६७ ।। इत्यनुस्मृतिसहनिवद्धं दुःखमुद्दहति वर्करवयें। सापि तस्य जानकाधिकलङ्गमुद्बभूव विषमो हि 'लुलापः ।।६८ ।। वाहयन्नतिभरावहपृष्ठ तं वरिष्ठवपुषं वणिगीशः । उज्जयिन्युपवने निजसार्थ वमखिन्नमय वासयति स्म ।।६६ ।। भूरिवारमवगाड्य तु शिप्रां सैरिमः श्रममराद्विचरन् सः। यारिमुक्तमवधीत्तुरगेन्द्र राजहंसमवनीपतिवायम् ।।७० ।।
.
..
---.-:-:.
- .
१. चाण्डालगृहात् २. जातिस्मरणसहितः ३. स्वर्गस्थम् ४. महिषः ५ महिष: