________________
1
1
तं तया रतिकृतं पुनरन्यो वर्करस्त्वरितमेत्य जघान । तीक्ष्णशृङ्गशिखरक्षत कुक्षिः कोपसंक्रमकषायितचक्षुः । । ५४ ।। स्वान्त्यधातुरसवाहि स तस्या गर्भधाम पुनरप्यधिशिश्ये । तस्य कुक्षिविवरे परिदृद्धिर्भारिणी चिरमभूदनजर्या । । ५५ ।। भूपतिस्तु मृगयामधिगत्य दुर्मनाः स विपिनादपगच्छन् । एकवारमविचारमविध्यत्तामजस्त्रियमुदस्त्रमुखेन ।। ५६ ।। अस्त्रवेधविवरच्युतमुच्चैश्छागशावमवलोक्य कृपालुः । भूपतिः श्वपचमेवमवोचद्वर्धयैनमिति सोऽप्यववर्धत् ।। ५७ ।। अन्यता मनिषवत्युणहारं भूपतिः पतिनिवेद्य भवान्याः । निर्जिहिंस सवयः परिवारः स्वेच्छया वनगतो मृगयूथम् ।। ५८ ।। तन्मृगव्यपरितोषविवृद्ध्या चण्डिकां महिषघातमयाक्षीत् । माहिषं तु पिशितं द्विजतृप्त्यै कर्मिणो रसवतीं परिणिन्युः ॥ ५६ ॥ आतपे प्रविततं तदवेक्ष्य शोषणार्थमवदन्निति विप्राः । श्राद्धकर्मणि न योग्यमिदं यत्काककुक्कुरगृहीतमपूतम् । ६० ।। किं तु वस्तमुखचुम्बितमेतत्सर्वतः सपदि शुध्यति मांसम् । एवमेव खलु धर्मविचारे नारदादिमुनयः प्रवदन्ति ॥ ६१ ॥
१. चाण्डालम् २. महिषस्येदं माहिषम् ३. पाकशानाम्
*દ