________________
तं च कृष्णभुजगाशनतृप्तं गन्तुमिच्छुमथ शल्यकमुग्रम् । सत्वरं तु परिवृत्य जघान क्षुतप्रवेशविकृतश्च तरक्षुः ।। ४५ ।। शल्यकः पुनरभूदधिशिप्रं लोहिताक्ष इति मत्स्यविशेषः । तीव्र कृष्णभुजगश्च बभूव क्रूरकर्मरसिकः शिशुमारः ॥ ४६ ॥ तं तु मीनमवहन्तुमरातिं पृष्ठतोऽतिजवतः परिधावन् । सोऽन्तरा जलगतां नृपकुब्ज प्रत्यवाप्य विलवासमनैषीत् ॥ ४७ ॥ ईर्ष्यया स पुनरुज्जयिनीशो धीवरैर्जलविलादवकृष्टम् । ग्राहवीरमथ घातयति स्म च्छेदभेदपरिदाहविकल्पैः । ।४८ ।। मृत्युना कवलितोऽजनि सोऽजा तत्पुरान्तरजनंगमवाटे' । कर्मकोद्रवरसेन हि मत्तः किं किमेत्यशुचिधाम न जीवः ॥ ४६ ॥ 'लोहिताक्षमपि जालगृहीतं निन्युरन्तिकचरा नरनाथम् । तं विभज्य तु यशोमतिरुच्चैः श्राद्धकार्यमवदत्कुरुतेति । । ५० ।। तस्य मांसमवखाद्य च विप्रा आशिषा दिवि यशोधरमूचुः । नन्दिहास्ति शफरः क्व पुनर्धीरित्यमन्यत स खण्डितमत्स्यः ।। ५१ ।। तं च मीनमतनुं वहति स्म सैव वस्तकमजा निजगर्भे । यस्तृतीयजननेऽजनि तीब्रो नीलनीरदविभो भुजगेन्द्रः । । ५२ ।। गर्भवासमपहाय स वस्तस्तारयीवनसमन्वितकायः । अभ्यरस्त निजयैव जनन्या कातरः स्मरशरग्लपिताङ्गः ।। ५३ ।।
५. चाण्डालवाटे २. महिष ३. मृतम् ४. वर्करम्
४३