________________
किञ्चिदन्तरमुदीरितनादं लूनमस्तकमवेक्ष्य पतन्तम् । खड्गमुष्टिमवमुच्य शुशोच क्लेशकृत्खलु सतामविवेकः ।।२७।। हा हतोऽस्मि सुदृशामृतमत्या हा हतोऽस्मि विनयेन जनन्याः । हा गतोऽस्मि नरके चिरवास हा गतोऽस्मि भवबन्यमजय्यम् ।।२८।। कृत्रिमः क्व पुनरेष पतत्री क्वासिघातपरिदेवनशब्दः । हन्त दुर्गतिवधूरमुना मां छद्मना नियतमाह्वयतीव ।।२६ ।। भावयन्निति परिप्लुतनेत्रो राजमन्दिरमवाप्य नरेन्द्रः । भोगनिःस्पृहमतिर्निजपुत्रे निर्मुमोच पृथिवीपतिलक्ष्मीम् ।।३०।। तं तपस्यभिमुखं नरपालं बन्यकी' वचनमेतदवोचत् । आर्यपुत्र परिहत्य भवन्तं कः पुनर्मम गृहे परितोषः ।।३१।। अद्य ते सुतवरं नवराजे स्थापयन्नृप यशोमतिमुाम् । मद्गृहेऽमृतमवाश्य' बनान्तं गन्तुमर्हसि मया सह पश्चात् ।।३२ ।। अन्तरङ्गमवयन्नपि तस्याः सद्म भोक्तुमगमत् स जनन्या। देहिनामुपगते हि विनाशे दुर्नयोऽपि सुनयः प्रतिभाति ।।३३ ।। तावुभावपि तयोपनिबद्धर्मोदकैर्विषमयैर्मधुदिग्धैः ।
जीवितात्ययमवापतुरातध्यायिनी रुचिवशादतिजग्धैः ।।३४।। विन्थ्यनामनि गिरौ स मयूरीगर्भवासमगमन्नरपालः । पालयन्त्यपसृतं पुनरण्डं कण्टकेन' शिखिनी' विनिजघ्ने ।।३५ ।।
३. मरणम् ४. बाणेन
१. कुलटा अमृतमती राजी २. मुक्त्वा ५. मयूरी