________________
तत्किमङ्ग वदनाम्बुरुहे ते म्लानभावमवलोक्य दिनादौ । मुक्तहर्षमधुना मम वत्स क्षारदग्धमिव सीदति चेतः ।।६।। इत्युवाच जननीमथ राजा देवराजसदृशो विभवेन । आशिषा चिरमृतंभरया' ते सर्वमेव मम देवि सुभद्रम् ।।१०।। किं तु कान्तिरवाय मगाइक बिभतं कुवलयोर्जितलक्ष्मीम्। व्यक्तमध तु मया निशि दृष्टा देवि संगमकरी तिमिरेण।।११।। तादृशं तु सकृदप्युपलब्धं जन्मनीह न मया स्वपतापि। तत्पुनर्मनसि कीलितमुच्चैर्दुःसहं वितनुते मम दुःखम् ।।१२।। तस्य तत्तु वचनं निजनारीदुश्चरित्रपिशुनं क्षितिभर्तुः । स्वप्नमेव परिभाव्य विमूढा संभ्रमादिदमयोचत माता ।।१३।। अत्र वत्स वितनु प्रतिकारं स्वप्नदर्शनमिदं खलु दुष्टम्। चण्डिका सपदि पूजयितव्या सा हि विघ्नशमनी परितुष्टा।।१४ ।।
आविक तनय घातय सधस्तद्गृहे तव भुजासिमुखेन। सा तु तेन वलिना परितृप्ता स्वप्नदोषमचिरेण निहन्ति ।।१५।। इत्यवोचत नृपस्तु पियाय श्रोत्ररन्प्रयुगल स कृपालुः । देवि किं पुनरिदं तव युक्त वक्तुमित्थमविचारमधर्म्यम् ।।१६।। मानवस्य खलु जीवितमद्यश्वीनमस्य तु कृते तनुपाते। दुःखमात्मनि सुदुर्थरमौर्वदेहिक" कथमिवोपनयेयम् ।।१७।।
१. सत्त्वरूपया २. मेष ३. अद्य श्वो वा भवन अग्रश्वानम् . मरणोत्तरकालोद