________________
:
उदस्य तस्याः सुरतोपचारं निद्रामिवाधिक्यवतीं दधानः । तत्साहसोद्वेगवता निकामं स भूमिनाथो मनसेत्यवोचत् ।। ६२ ।। इयं हि सर्वावयवाभिरामा वश्यापि कामं मकरध्वजस्य । कथं निकृष्टेऽपि रमेत यद्वा मोहं विधत्ते विषयाभिलाषः । । ६३ ।। रूपं मनोहारिणि यौवने च वृथैव पुंसामभिमानः । नतभ्रुवां चेतसि 'चित्तजन्मा प्रभुर्यदेवेच्छति तत्करोति ।। ६४ ।। इयं द्वितीया मम राजलक्ष्म्या यदेवमुच्चैर्व्यभिचारभूमिः । कथं च तस्यां चपलप्रकृत्यां विश्वासमत्यन्तमुपव्रजामि ||६५ ।। तत्कामवश्यं धिगिदं मनो मे धिग्धिग्विभूतीरसुखप्रचाराः । प्रव्रज्यया` तां पुनरव्यपायामन्वेषयिष्यामि हि सिद्धिकान्ताम् ।। ६६ ।। इत्थं परामर्थ्य परैर्विकल्पैर्निमील्य नेत्रे शयने शयानः । आकर्णिर्तर्बुद्ध इवोत्थितोऽभूत्प्राभातिकैर्मङ्गलगीतनादैः । । ६७ ।। कृत्वा घृतावेक्षणमुच्चकैग स्पृष्ट्वा भिषग्भिः प्रविचिन्त्य कायम् । स नर्मबन्धुः प्रघणोपविष्टां देवीं सखीमध्यगतामपश्यत् ।। ६८ ।। प्रहासगोष्ठीं विरचय्य बुद्ध्या संक्रीडमानः स तया नरेन्द्रः । जघान तस्याः सुकुमारमङ्ग लीलागृहीतेन नवोत्पलेन । १६६ ।। तद्वेदनां सोडुमिवाक्षमत्वान्निपातयन्तीं तनुमुर्वरायाम् । आश्वासयंश्चन्दनवारिसेकैरवोचदेवं कृपयेव भूपः ॥ ७० ॥
५. कामवीक्षणा ३. गृहदेहमुपविष्टां पृथिव्याम
३०