SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 1 आवर्तमानः परिमन्दवृत्त्या वातायनद्वारि चिरं विरेजे । 'कर्पूरथूली सुरभिर्नभस्वान् श्वासायित' स्तद्गृहदेवतायाः । । २५ ।। *आमेचके मन्यददतीया । स चन्दनस्थासक' बन्धुराङ्गीं देवीमुदारां रम्यांबभूव । १२६ ।। क्षणं स तस्या वदनारविन्दे जग्राह लीलां भ्रमरस्य कामी । क्षणं तु पीनस्तनयोर्निकामं जहार चर्चा हरिचन्दनस्य । २७ ।। क्षणं तया नूतनरत्नभाजा भुजेन कण्ठे परिरभ्यमाणः । कृतामु स्पर्श इवेन्द्रदन्ती" भेजे स भावं भृशमुन्मदिष्णुः ।। २८ ।। क्षणं जिघृक्षुर्जघने निधानं नीवीधरान्तर्गतमुत्पलाक्ष्याः । उत्सारयामास कृतोपजापस्तद्वेष्टयन्तं रशनाभुजङ्गम् ।। २६ ।। आलिङ्गनं गाढमपास्य तस्मिन् दत्तेक्षणे कामिनि नाभिमूले । फूत्कारदुर्वारमणिप्रदीपेष्वतीव सुश्रूरकृताभ्यसूयाम् ॥ ३० ॥ निपीड्य दन्तच्छदमुद्दशन्तं सा वेदनासीत्कृतगर्भकण्ठी । कचावकृष्टेन तु मल्लिकानां दाम्ना दृशा कोपकरी जघान । । ३१ ।। रतिक्रियायां विपरीतवृत्तेस्तस्याः स्तनाभ्यामवमुच्यमानम् । प्रियस्य तस्योरसि धर्मतोयं कामानलाज्याहुतिवत्पपात ।। ३२ ।। ततो रजन्यां परिणामवत्यां रतोत्सवारम्भपरिश्रमेण । आश्लिष्य कान्तां श्लथभावबन्धं निद्रासुखं भूमिपतिः प्रपेदे | |३३|| अत्रान्तरे दन्तिनि राजवाह्ये तद्वासगेहं "समयावबद्धे । तत्र स्थितो हस्तिपकस्तु जाग्रद्वबन्ध गीतं गमकाभिरभ्यम् ||३४|| "तन्मूर्च्छनाभिः स्फुटमभ्युदीर्णं तत्प्रौढमाभोगवता स्वरेण । तत्सुप्रयोगान्मथुरावदातं तद्वन्धुरं मालवपञ्चमेन । ३५ ।। • १. वायुः २. श्वास वाचरित ३ ते तिलन्द 2. नेपं ६ ऐरावत संस्तनी ७. ऐरावती गजः अधीकान्ति खेदजलगु १० निक ११. स्वगाणामारीणाविशेषैः
SR No.090547
Book TitleYashodharcharitam
Original Sutra AuthorN/A
AuthorRajsuri, Pannalal Jain
PublisherShivsagar Digambar Jain Granthamala Rajasthan
Publication Year
Total Pages90
LanguageHindi
ClassificationBook_Devnagari & Story
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy