________________
1
--------
ततोऽमयरुचिर्थीमांस्तस्योत्तरमुदाहरत् । वाङ्मयूखैर्निराकुर्वन्दुरन्तं दुरितं तमः ।। ५२ ।।
आवयोश्चरितं राजन् धार्मिकेभ्यो ऽभिरोचते । अधर्मरसिकश्चासि त्वं तत्किमभिलप्यते । । ५३ ॥ प्रकृतिर्विपरीता न क्षमते गुणदर्शनम् । पित्तज्वरवतः क्षीरं मधुरं नावभासते । । ५४ ।।
तदलं कथयास्माकं कुरु पथ्यं यदात्मनः । यच्च कर्मानुरूपं नस्तदस्तु प्रगुणा वयम् । । ५५ । इत्युक्तस्तेन निस्त्रिंशं निरस्य रचिताञ्जलिः । निर्बबन्ध नृपो भूयः कुमारोऽप्यब्रवीदिवम् ||५६ ॥ तदास्थानसरः सर्वं करवारिजकुड्मलैः । पूजयामास बालेन्दुं धर्मामृतरसच्युतम्' ।। ५७ ।।
उपजातिः
भो भो नराधीश्वर साधु साधु,
त्वया मतिर्धर्मपथे निबद्धा । कालेन भव्यत्वगुणो हि दीप्तः
कल्याणबुद्धिं कुरुते नराणाम् ।। ५८ ।।
धर्मामृतस्यन्दिनि सूक्तिसारे
ततोऽवधानं कुरु मामकीने ।
श्रद्धानखया हि "निशम्यमानो
निःशेषयत्येतदशेषदुःखम् ।। ५६ ।।
१. तत्पराः २. खड्गम् ३. धर्म एवं अमृतरसरतं च्योतयतीति धर्मामृतरसच्युत् तम् ४. श्रूयमणिः
१२