SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ * प्रथमः सर्ग: * श्रीमदारब्धदेवेन्द्रमयूरानन्दनर्तनम् । 'सुव्रताम्भोधरं वन्दे गम्भीरनयगर्जितम् ।।१।। अस्माकं जिनसिद्धश्रीसूर्युपाध्यायसाधवः। कुर्वन्तु गुरवः सर्वे निर्वाणपरमश्रियम्।।२।। श्रीमत्समन्तभद्रायाः 'काव्यमाणिक्यरोहणाः । सन्तु नः सन्ततोत्कृष्टाः सूक्तरलोत्करप्रदाः।।३।। इतिहाससमासोऽयमत्रावहितचेतसाम्। . आस्रवन्ति शुभान्युच्चैर्निर्जीर्यन्ते शुभान्यपि ।।४।। वर्धयत्येष संवेगं विद्यते शुद्धदृष्टिताम्। प्रध्वस्तीकुरुते व्याधीनाधीन पहरस्यलम् ।।५।। श्रीपार्श्वनाथकाकुत्स्थचरितं येन कीर्तितम् । तेन श्रीवादिराजेन दृब्या *याशोधरी कथा।।६।। इहास्ति भारते 'चास्ये देशे यौधेयनामनि पुरं राजपुरं नाम्ना राजराजपुरोपमम् ।।७।। कार्तस्वरमयो यस्य परिधिश्चुम्बिताम्बुदः। भाति मध्यदिनार्कस्य परिवेष इवान्वहम् ।।८।। प्रासादशिखरपोतपद्मरागमरीचिमिः। मध्याह्नार्कातपो यत्र मिश्रो बालातपायते ।।६।। १. विंशतितमत्तीर्थकरमेघम् २. काव्यान्येव माणिक्यानि तेषां रोहणा रत्नोत्पादकगिरिविशेषाः ३. मानसिकव्यथाः ४. यशोधरस्येयं याशोधरी ५. क्षेत्र ६. अलकापुरीसंनिभम्
SR No.090547
Book TitleYashodharcharitam
Original Sutra AuthorN/A
AuthorRajsuri, Pannalal Jain
PublisherShivsagar Digambar Jain Granthamala Rajasthan
Publication Year
Total Pages90
LanguageHindi
ClassificationBook_Devnagari & Story
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy