________________
।।७५।।
व्याख्या - ये जना आज्ञामादेशं जिनानामर्हतां शिरसा मस्तकेन वहन्ते ये च पुनर्धोराश्च ते उपसर्गाच घोरोपसर्गास्तान् सहन्ते, अथ च धर्मस्य मार्ग प्रकटं निश्छद्मतया कथयन्ति ते नन्विति निश्चितं संसारपारं लभन्ते । तच्छब्देन यच्छन्दोऽपि सूचित एवेत्यक्षरार्थः । अत्र काव्ये संसारपारप्रापणोपायः पदत्रयेण त्रिधा दर्शितः, एतैस्त्रिभिः प्रकारैरनेके सिद्धि प्राप्ताः ये जिनाज्ञां पुरस्कृत्य घोरोपसर्गसोढारस्त एवं सिद्धिसौख्यभोक्तारो, न पुनः श्रीसर्वज्ञाज्ञाविमुखाः सर्वथाऽनिष्टभूयिष्ठवपुः कष्टस्रष्टारोऽपि पारप्रापका बालतपस्विजनवत् । तथा सद्धर्माध्वनः प्राकटयेन कथयितारो भूरिशः सिद्धाः । ईदृग्विधा चारचारिमधरा नरा संसारावारपारगामिनः स्युरिति भावार्थ: । ये पूर्वमेव जिनाज्ञाराधकास्ते सुखेनैव सिद्धिसाधकाः स्युरत्र किमाश्चर्यं ? ये तु जन्मनैव घोरकर्मकारिणः पश्चाच्छ्रीजिनाज्ञावारिणस्तदनु तीव्रोपसर्गानुभूत्या जीवितान्तकरण इति विं । दिवेदीभोक्तारः श्रूयन्ते श्रीभरतादयः । अत्रार्थेऽर्जुनारामिकदृष्टान्तः सूच्यते
॥ अर्जुनामिककथा ॥
इत्थेव भारहे वासे पुरे रायगिहाभिहे । आसी पासीकयारामो अज्जुणो नाम मालिओ ॥ १॥ पुब्वपूरुससेणीए अजिया रुक्खसजिया । तस्सत्थि वाडिया एगा पाडियागपल्लवा ||२|| सो य बंधुमईभज्जासहिओ सुहिओ भिसं । पालेइ नियमारामं कडुम्बुव्व निरंतरं ॥३॥
।।७५।।