________________
॥ इति जिनपालितजिनरक्षितष्टान्तः ॥ अर्थवं ये कर्वन्ति ते संसारपारगामिनः कथं स्युरेतदुपरि सप्तमं काव्यमाह । पूर्वकाव्ये सरागनीरागतोपरि दोष- | गणावदाहती, तदपि सरागत्वं परिग्रहमूलं, परिग्रहस्तु प्रतिषेद्ध मश्क्यः , तद्वर्जकाः संसारकान्तारपारं प्राप्नुयुः, इत्येतदTel यसूचकं काध्यमाह
परिग्गहारंभभरं करंति, अदत्तमन्नस्स घणं हरति ।
धम्मं जिणुत्तं न समायरंति, भवन्नवं ते कहमुत्तरंति ॥७॥ व्याख्या-ये नराः परिग्रहारम्भभरं कुर्वन्ति, परि समन्तात् गृह्यते इति परिग्रहः, आरम्भणमारम्भः, परिग्रहश्चारमच तयोर्भरस्त, परिग्रहमन्तरेण आरम्भो न स्यात्, आरम्भमन्तरेण परिग्रहोऽपि न स्यात्, द्वयोरपि पापमूलत्वमा वेदितं, तं ये नराः कर्तारः तथाऽदत्तमवितीर्णमन्यस्य परस्य धनं स्वर्णरूप्यादि हरन्ति चोरयन्ति, एवमपि कृत्वा यदि जिनोक्तं धर्ममाश्रयन्ते तदा सिसिसौधाधिवासलालसाः संजायन्त एव, नास्त्यत्र सन्देहः । चिलातिपुत्रदृढप्रहारिप्रभृतयोऽनेके प्रबुद्धाः श्रयन्ते । अथ च ये परिग्रहारम्भपराः परधनस्य पश्यतोहरा अपि भूत्वा धर्म जिनोक्तं न समाचरन्ति । भवनं भवः संसारः स एवार्णवस्तं कथं ते उत्प्राबल्येन तरन्तीत्यर्थः । अथ तात्विकोऽर्थः-गहिण: प्रभूतं परिग्रहं प्रगणयन्ति तथा परकीयामयपि वस्तूनि कर्मवशात्स्वीकुर्वन्ति । प्रान्ते चेजिनोदितं धर्म कुर्युस्तदा भवाम्भोधेः पारं लभे रन् एवेति काव्यार्थः । अत्राथें शशिशरदृष्टान्तः
॥७
॥