________________
| सप्ततिका
।
उपदेश- निरुपमरूपवती सा ह्यगण्यलावण्यमङ्गमादधती। श्रृङ्गारोदारगिरं जजल्प सङ्कल्पजन्मवशात् ।। ५९ ।।
हा कथमनाथिकाऽहं दुस्सहविरहाग्निदाहसंतप्ता । अशरण्यारण्यगता हरिणीवाहं भ्रमिष्यामि ।। ६० 11 मुक्त्वा मामनुरक्तामबलामेकान्तकान्तकमनीयाम् । प्राप्ती पथिकावस्थामस्थानोद्यानसन्मानौ ।। ६१ ।।
न कदाचिद्भो भवतोरपराधः क्रोतः कृतः कोऽपि । हेतोः कम्मादुष्ो सन्तुष्टौ पश्यतोऽभिमुखम् ।। ६२ ।। ॥६॥
सौवाङ्गसङ्गसलिलासेकादेकान्तीत्यसमुपेतम् । विरहात्तितप्तमङ्गं मदीयमेतत्प्रकुर्वाताम् ।। ६३ ॥ इत्यादीन्यपि भणि तान्य वगणयित्वा न वै बिलोकयतः । एतस्या अपि सन्मुखमेतो यावत्सुदृढहृदयौ ।। ६४ ।।। अवबुध्यावधिबोधात्सदिरोधा दीप्तमानसक्रोधा । मद्वचसैष बलिष्यति जिनरक्षित इत्यवश्यतया ॥ ६५ ।। प्रावर्तत सा वक्तं युक्तं किमदस्तवाप्यहो कर्तुम् । जिनरक्षित ! दक्षशिरोमणे! कथं गणयसि तृणाय ।। ६६ ।। जिनपालितोपरिष्टादिष्टा वाञ्छा कदापि मे नासीत् । हृदयाभीष्टस्तु भवानेवाधिक्येन तत्त्वतया ।। ६७ ।। जिनपालितः कदाचिद्यदि न वदति रुष्टधीमया सार्द्धम् । तव पुनरेतन्मौनावलम्बनं नैव युक्तमहो !| ६८ ।। त्वद्विरहे मम हृदयं निर्दय! संस्फुटति भृतसरोवरवत् । तत्प्रीतिपालिकरणाद्धारय वारय विषादभरम् ।। ६९ ।। नाहं त्वया विरहिता हितानि मन्ये वनानि गेहानि । हानिरियं महती ते यन्मामपहाय यासि रताम् ।। ७० ।।
चरणरणन्मजीरा क्षीरादपि मधुरवादिनी वदने । तदुपरि ववर्ष हर्षास्त्रिदशी सौवर्णकुसुमभरम् ।। ७१ ।। TA उत्कर्णतया स तया समुदीरितवाक्यमादराकृण्वन् । विद्धः स्मरशरनिकरैः स्मरैस्तदीयाङ्गरूपगुणान् ।। ७२ ॥