________________
॥६७॥
यक्षेणाख्यायि तदा सर्वमिदं सुस्थतां नयिष्येऽहम् । सुदृढतया मत्पृष्ठाखाभ्यां खलु भवद्भ्यां भोः ॥४५॥ तस्या मायाविन्या मानिन्याः केटके समेतायाः । न हि श्रृङ्गारोदारा रूपरमा लोकनीया भोः || ४६ || तद्गीरप्यतिमधुरा स्मरानुरागप्ररोहसंजननी । न मनाकर्णे कार्या कटुकाऽपि न मानसे धार्या ॥ ४७ ॥ यद्यनुरागवशंवदहृदयत्वं जातमेतदुपरिष्टात् । कथमपि युवयोस्तह्यहमुच्छाल्य निजोरुपृष्टतटात् ॥ ४८ ॥ क्षेप्स्याम्यन्तर्जलधेरथ यदि समभावतां समालम्व्य । स्थास्यत उप्ततपदवीं तद्यवयोरर्पयिष्यामि ||४९ || || युग्मम् ।। प्रतिपेदा तावपि तदुक्तमत्यादरात्तथेत्युक्त्वा । हृदयानिवर्त्य रागं तस्थतुरेकाग्रतरचितौ ।। ५० ।। अत्रान्तरे तुरङ्गमरूपं निर्माय झटिति निर्मायः । तावधिरोप्य कुमारी वियदध्वनि संप्रतस्थेऽसौ ।। ५१ ।। मानजयनगत्या सत्याधारः प्रयात्यसो यावत् । तावत्समाजगाम व्यन्तर्यात्मीयधवलगृहे ॥ ५२ ॥ स्वस्थापि तौ वृषस्यन्ती तत्रैौ दृशा ह्ययश्यन्ती । विषसाद हृदि नितान्तं कुत्र गतौ वञ्चयित्वा तौ ॥ ५३ ॥ तावदवधिप्रयोगादव गतसम्यक्तदीयक सतत्त्वा । आगत्य लवणजलधावेषां तत्केटकेऽधावत् ॥ ५४ ॥ | स्थित्यन्तं कालं मत्सद्मनि भोगभङ्गिमनुभूय । कथममिलित्वा चलितावहो भवन्तौ महाधूतौ ।। ५५ ।। निर्मुच्पैनं ववकमश्वीभूतं कृतान्तमिव भूतम् । मामाश्रित्य पुनर्भोस्तथैव सुखिनौ युवां भवतम् ।। ५६ ।। नो निशितेनेसेनव कृपाणेन पातयिष्यामि । मस्तकयोर्युगलमिदं प्रबलं कूष्माण्डफलवदलम् ।। ५७ ।। scare aurat क्षुब्ध तद्गुणेष्वपि न लुब्धो । प्रबलैरध्यनलभरैर्न सह्यव विन्ध्याचलो चलतः ॥ ५८ ॥
॥६७॥