________________
सप्ततिका.
उपदेश-12
शृणुयान्नान्यो हि यथा तथा पुमानुक्तवान् वचः शनकैः । युयोरपि दरवस्था ननं संभाध्यते मदत् ॥ ३१ ॥
तस्माद्दीनमनस्काभ्यामाभ्यामुक्तमातिवत्तिभ्याम् । अस्मस्मरणत्राणोपायं दर्शय दयामय ! भोः ।। ३२ ।।
K करुणापरिपूर्ण मनाः स ना समाचष्ट कष्टगः स्पष्टम् । एकोऽस्ति जीवितव्योपायः कायस्य चेत् क्रियते ॥ ३३ ॥ ॥६६॥
इह पूर्वदिशारामेत्यभिरामे सेलकाहृयो यक्षः । स तुरङ्गरूपधारी परोपकारी सदाऽप्यास्ते ॥ ३४ ॥
पूर्णामावास्यायामष्टम्यामथ चतुर्दशीदिवसे । आगत्य वक्ति स भृशं के पथिकमवामि तारयाम्यहकम् ।। ३५ ।। 1 अम्माँस्तारय पालय निर्माथान् देशपुरपरिभ्रष्टान् । स करिष्यति वतूर्णं मनोरथापूरणं निखिलम् ।। ३६ ॥
विषयासक्तेन मया तद्वचनं नहि कृतं सुकृतगम्यम् । न भवद्भ्यां श्रुतविद्या प्रमादपरता विधातव्या ॥३७ ।। स्वीकृत्यैतस्य गिरं दुरन्तदुःखातित तिघनवृष्टिम् । व्यावृत्य ततस्तत्रागत्य धने स्नानमाधाय ।। ३८ ॥
आदाय धबलकमलान्याजग्मतुरेतको हि यक्षगृहे । पूजोद्युक्तमनस्कावमनस्कावङ्गनासङ्गे ॥३९।। | अभ्यर्च्य भूरिभक्त्या नवनवयुक्त्युद्भवादभिष्टुत्य । इति विज्ञसिमकार्कीमनिष्टकष्टोद्भवाद्भीतौ ।।४।। त्वं यक्ष रक्षकोऽसि प्रत्यक्षः कल्पवृक्षवदाता । त्राता प्राणिगणानामा नामाश्रयस्थानम् ॥४१॥ एवं विज्ञप्तः सन् तुष्टः सुष्टवेतदुपरि यक्षेशः । भक्त्या न हि कस्तुष्यति रुष्यति न हि कः परुषवाचा ।।४।। प्रोवाच बाचमनयोबिनयोद्यतचेतसोरसो सुमनाः । के तारयामि के पालयामि किल साध्वसाकुलितम् ।।४३।। अब्रतामेती तं कारुणिकशिरोमणे ! महायक्ष । बैदेशिकावशरणावाचां तारय तथा रक्ष ।।४४।।