________________
उपदेश
।।६४।।
नानाव्यापारपराव परापकार्य लब्धचातुर्यो । तावेकादशवारानवगाह्येतौ सुखाञ्जलधिम् ||३|| भूयोऽपि तौ प्रतुरात्मीयसगीनवारितावपि हि । प्रचणमापूर्य बहुप्रकारवस्तूकरेः सुतराम् ||४ यावजलनिधिमध्ये प्रभूतभूभागमागतावेतौ । प्रबला शुग प्रयोगात्तावत्स्फुटमस्फुटत् पोतः ||५|| पुण्यादवाप्तफलको जलधेरुपकण्ठमाप्तवन्तो तो । उत्तीर्य प्रचुरपयःपूरं दूर स्थिती विपदः ||६|| Traft रत्नद्वीपं प्राप्याश्नीतः पचेलिमफलानि । दुःखाद्दीनमनस्कौ वृक्षच्छायां निषेवते ॥७॥ तावलीपाधिष्ठात्री क्षुद्रमानसा देवी । तत्राप पापमूर्तिः प्रत्यक्षेवारुखड्गकरा ||८|| दृष्ट्वा दृष्ट्वा हृष्टा तो पापिष्ठा मुखे स्फुटं मिष्टा । आचष्टेति निकृष्टा सार्थ भोगान् मया भजेतां भोः ||२|| दात्रेण शीर्षवक्किल तो निचिता सिनामुना ह्यधुना । युवयोर्मंस्तकयुग्मं हठानिमेषाल्लुनिष्यामि ॥ १० ॥ भीत्या कम्प्रमाभ्यामभ्यागताङ्गितुल्याभ्याम् । प्रतिपेदे तद्वचनं मृत्युभयं सर्वताऽप्यधिकम् ॥११॥ उत्क्षिप्य क्षणमात्रेणैषा रोषारुणेक्षिणी प्रायः । तावानित्ये भुवने निजे महापातकाद्भवने ||१२|| संजले निर्लोका निर्भीका देहयुद्गलानशुभान् । देव्यनयोरस्तदयोदारस्फारोरुशृङ्गारा ।।१३।। अमृतमयरस फलानामानीयाहारमेतयोदत्ते । भुङ्क्ते च कामभोगानभिरामानिष्टसंयोगान् | १४ | साऽथ तयोरित्यवदत्कदाचिदतिसोन्मदाऽमरी क्रूरा । गन्तव्यं मम लवणोदधौ सुप्राभुग्वरादेशात् ॥ १५ ॥ सुस्थितसुरेण सार्द्ध तृणकच वरकाष्ठखण्ड मृतकाद्यम् । संशोध्योदधिमध्यात् कृत्वस्त्रिः सप्त वेगेन || १६ ॥
१ कृत्वः उत्तरपदे यस्येतिकृत्वा मध्यमपदलोपी समासः त्रिः सप्तपदेन सह कर्तव्यः ।
समतिक
।।६४।।