________________
॥६३
एवं महर्षेः स्तवनं सुजन्ती, पुनः पुनः पादयुगं नमन्तौ । प्रमोदरोमाञ्चितगात्रयष्ठी, स्वर्ग सुरौ जग्मतुरादृष्टी ।। १९९ ।। धौरेयवद्धर्मधुरां दधानः सनत्कुमारर्षिरपि प्रधानः । महद्धिकाऽभूत्रिदशः स नाके, सनत्कुमार शुभपुण्यपाके ।। २०० ॥ इत्य सभा सातामा पवित्र, सनत्कुमारारुप मुनेश्चरित्रम् । आकर्ण नीयं कविभिः, श्रवोभिः, सुचानुप्राससमूहशोभि ॥२०१।।
॥ इति श्रीसनत्कुमारचरित्रम् ॥ अथ बिरक्तचित्त: सत्त्व: सदा सुखो तदन्यस्तु महादुःखीत्येत दुपरि पूर्वकाव्यार्थसम्बद्धमेव पष्ठं काध्यमाह, तद्यथा
विरत्तचित्तस्स सया वि सुक्खं, रागाणरत्तस्स अईव दुक्खं ।
एवं मुणित्ता परमं हि तत्तं, नीरागमम्गमि धरेह चित्त ।। ६ ।। ध्याख्या-विरक्तचित्तस्य वैराग्यापन्नात्मनः सदापि निरन्तरमेव सुखमस्ति । अथ रागानुरक्तस्य रक्तात्मनोऽतीव प्रकामं दुःखमास्ते । एवं परमं तत्त्वं मुणित्वा ज्ञात्वा हि निश्चितं नीरागमार्गे निःसङ्गाध्वनि चित्तं धरत निवेशयध्वमिति काव्यार्थः ।। अथ विरक्तरक्तचित्तानां सुखदुःखफलाविर्भावकः स्पष्टी क्रियते दृष्टान्तो जिनपालितजिनरक्षितसत्कः
। जिनपालित-जिनरक्षित-कथा ।। मधुराम्भोभृतपम्पा दुर्जनजाती सदा निरनुकम्पा । शत्रुजननिष्पकम्पा चम्पा नाम्नाऽस्ति वरनगरी ||१|| सञ्जनहृदयानन्दी माकन्दी तत्र वर्तते श्रेष्ठी । जिनपालितजिनरक्षितनामानौ तत्सुतौ जातौ ।।२।।